तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 139, कुल 940 में से
संदर्भ में पढ़ें१३४ तैत्तिरीये आरण्यके
इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः। तदे॒षाभ्यनू॑क्ता^(९)। (१०)अ॒पाग्ँ रस॒मुद॑यग्ँसन्। सूर्ये॑ शु॒क्रग्ँ समा॑भृतम्। अ॒पाग्ँ रस॑स्य॒ यो रस॑ः। तं वो॑ गृह्णाम्युत्त॒ममिति॑^(१०)।
प्तिः। नद्यादिषु परतीरगमनाय जनैर्या नौ सम्पाद्यते सा- जले प्रतिष्ठिता न भवति। गमनागमनाभ्याञ्चञ्चलत्वात्। सर्वा लोकमङ्गरूपा तु नौर्न कदाचिदपि चलति किं त्वप्सु स्थैर्येणावतिष्ठते। आवरणसहितं ब्रह्माण्डं घनोदाख्ये महा- जलेऽवतिष्ठत इति हि पौराणिकप्रसिद्धिः। तत् तस्मिन् सर्वजगदाधारभूता आप इत्येवं रूपेऽर्थे काचिदृक् 'अभ्य- नूक्ता', शाखान्तरे समाम्नानात् तामेतामृचद्दर्शयति। "(१०) अपाग्ँ • गृह्णाम्युत्तममिति"(१०) इति। योऽयम् 'अपां', 'रसः' सारः, तं रसमभिलक्ष्य 'उदयन् सन्' सर्वे लोका उद्गताः। तस्मादेव रसादुत्पद्यतेऽस्मिन्नेवावतिष्ठत इत्यर्थः। कीदृशं रसं, 'सूर्ये' आदित्यमण्डले, वृष्टिजननाय 'समा- भृतं' सम्पादितं, अत एव 'शुक्रं' निर्मलं, 'अपां रसस्य' त्रैलोक्यरूपस्योदकसारस्य, तदुत्तमः 'रसः' सोमरूपः, हे आपो युष्मदीयं 'तं' 'उत्तमं', रसं, 'गृह्णामि' तेषु तेषु स्वीकरोमि, 'इति'शब्दो मन्त्रसमाप्त्यर्थः, अनेन मन्त्रेण का- चिदिष्टकोपधेया॥