तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 157, कुल 940 में से
संदर्भ में पढ़ें१५२ तैत्तिरीये आरण्यके
त॒स्माद्दक्षि॒णोऽर्द्ध॑स्तेज॒स्वित॑रः^{(३)}। ^{(४)}स्था॒व॒रा गृ॑ह्णाति। ताः प॒श्चादुप॑दधाति। प्रति॑ष्ठिता॒ वै स्था॑व॒राः। प॒श्चादे॒व प्रति॑ष्ठति^{(४)}। ^{(५)}वह॑न्तीर्गृह्णाति ॥ २ ॥ ता उ॑त्त॒रत उ॑पदधाति। ओज॑सा वा ए॒ता वह॑न्तीरि॒वाङ्ग॑तीरिव आ॒कूज॑तीरिव॒ धाव॑न्तीः। ओज॑
तृतीयं जलविशेषं विधत्ते। ^{(४)}“स्थावरा गृह्णाति • प्रतिष्ठति”^{(४)} इति। नदीषु क्वचिदगाधो ह्रदो दृश्यते। तत्रापो न प्रवहन्ति किन्तु स्थिरावस्थितिशीलास्तासां प्रतिष्ठितस्वभावानां पश्चिमदिग्युपधानेन स्वकीयानां सर्वेषां प्रतिष्ठां कृत्वा ‘पश्चात्’, स्वस्य प्रतिष्ठां करोति ॥
चतुर्थं जलविशेषं विधत्ते। ^{(५)}“वहन्तीर्गृह्णाति • तेजस्वितरः”^{(५)} इति। नद्यां प्रवहन्त्यो या आपः ‘ताः’, गृहीत्वोत्तरस्यां दिश्युपदध्यात्। ‘एताः’ आपः, यदा धावन्ति तदानीं ‘ओजसा’ स्वकीयेन बलेन, प्रवाहमध्यपतितान् काष्ठादिपदार्थान् ‘वहन्तीरिव’ आकर्षयन्त्य इव भवन्ति, ‘उद्गतीरिव’ पाषाणादिषु लग्नाः स्वबिन्दुभिरूर्ध्वं गच्छन्त्य इव, ‘आकूजतीरिव’ तत्र तत्र निम्नोन्नतप्रदेशेषु सञ्चाराच्छब्दं कुर्वन्त्य इव भवन्ति, तस्यैतस्य वहनस्योद्गमनस्याकूजनस्य चौज एव कारणं, अत उत्तरस्यां दिशि ‘ओज एव’, आस्थापयति। यस्मादेवं ‘तस्मात्’, लोकेऽपि