भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 176, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 176

१ प्रपाठके २७ अनुवाकः । १३१

य॒ज्वानो॒ येऽप्य॑य॒ज्वानः॑ । स्व॒र्यन्तो॒ नापे॑क्षन्ते । इन्द्र॑म॒ग्निञ्च॒ ये वि॒दुः<sup>(१३)</sup><sup>(१४)</sup>सि॒कता॑ इव॒ संय॑न्ति । र॒श्मिभिः॑ समुदीरि॑ताः । अ॒स्माँल्लो॒काद॑मु॒ष्माच्च॑ । ऋ॒षिभि॑रदात् पृश्नि॑भिः<sup>(१४)</sup><sup>(१५)</sup>अपै॑त॒ वीत॒ विच॑ सर्पता-

दुः”(१३) इति । ‘अशृतासः’ अपक्वचित्ताः, ‘शृतासश्च’ पक्वचित्ता अपि, ‘यज्वानः’ श्रुतिस्मृतिविहितकर्मानुष्ठायिनः, ‘येऽप्ययज्वानः’ तद्विपरीताः, तेषां मध्ये ‘ये’ पुरुषाः, ‘इन्द्रं’ परमैश्वर्ययुक्तं परमात्मानं, ‘अग्निं’ आरुणकेतुकञ्च, ‘विदुः’ याथात्म्येन जानन्ति, ते ज्ञानिनः ‘स्वर्यन्तः’ स्वर्गं मोक्षं वा प्राप्नुवन्तः, ज्ञानव्यतिरिक्तसाधनान्तरं ‘नापेक्षन्ते’॥

अथैकादशीमाह । <sup>(१४)</sup>“सिकता इव ० पृश्निभिः”(१४) इति । यथा लोके वायुना प्रेरिताः ‘सिकताः’ क्वचित् परस्परं ‘संयन्ति’ राशिरूपेण सङ्गच्छन्ते। तद्वदेते जीवाः ‘रश्मिभिः’ रज्जुस्थानीयैः कर्मभिः, ‘समुदीरिताः’ प्रेरिताः सन्तः, कर्मार्जनस्थानीयात् ‘अस्माल्लोकात्’ कर्मफलभोगरूपात्, ‘अमुष्माच्च’ लोकात्, तदा तदा निर्गत्य क्वचित् क्वचित् संयन्ति तेषां सर्वेषामनुग्रहाय परमेश्वरः ‘पृश्निभिः’ शुक्लैः, तत्त्वप्रकाशकैः, ‘ऋषिभिः’ मन्त्रैः, ‘अदात्’ ज्ञानं प्रयच्छति ॥

अथ द्वादशीमाह । <sup>(१५)</sup>“अपैतं वीत ० वसानमस्तौ”(१५) इति । यमेन नियुक्ताः पुरुषाः पुरातना नूतनाश्च मर्त्यां