भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 183, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 183

१८८ तैत्तिरीये आरण्यके

वस॑मिच्छतु^{(१)}। ^{(२)}इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑। हृ॒दो अ॒स्त्वन्त॑र॒न्तर्द्युयो॑त। म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्व॒स्मे। सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः^{(२)}। ^{(३)}यो गर्भ॑मो-


न्याय ० समिच्छतु”^{(१)} इति। हे ऋत्विग्यजमानाः ‘पर्जन्याय’ वृष्ट्यभिमानिदेवार्थं, ‘प्रगायत’ प्रकर्षेण स्तुतिं कुरुत। कीदृशाय, ‘दिवस्पुत्राय’, दिव्युत्पन्नत्वात् पुत्रत्वं। ‘मीढुषे’ वृष्टिरूपेण जलस्य सेचकाय, ‘सः’ पर्जन्यदेवः, ‘नः’ अस्माकं, ‘यवसं’ अन्नादिरूपं भक्ष्यं, सम्पादयितुं ‘इच्छतु’॥

अथ द्वितीयामाह। ^{(२)}“इदं वचः ० देवगोपाः”^{(२)} इति। ‘स्वराजे’ स्वत एव राजमानाय, ‘पर्जन्याय’ पर्जन्यदेवार्थं, अस्माभिरुक्तं ‘इदं’ स्तुतिरूपं, ‘वचः’, ‘हृदोऽन्तरमस्तु’ तदीयचित्ते प्रविष्टमस्तु। ‘तत्’ अस्मदीयं वचः, ‘युयोत’ तच्चित्ते हे ऋत्विजो मिश्रयत। ‘वातः’ वायुः, ‘अस्मे’ अस्मासु, ‘मयोभूः’ सुखस्य भावयिता, भवतु ‘विश्वकृष्टयः’ सर्वेऽपि मनुष्याः, अस्मासु मयोभुवः सन्तु। ‘ओषधीः’ व्रीहियवाद्याः, ‘सुपिप्पलाः’ शोभनफलोपेताः, ‘देवगोपाः’ हविर्द्वारा देवानां पालयित्र्यः ‘सन्तु’॥

अथ तृतीयामाह। ^{(३)}“यो गर्भमोषधीनां ० पुरुषीणाम्”^{(३)} इति। ‘यः’ पर्जन्यो देवः, ‘व्रीहियवाद्योषधीनां’, ‘गवां’