भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 185, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 185

१८० तैत्तिरीये आरण्यके

पृ॒थि॒वीमस्का॑न् । यदोष॑धीर॒प्यस॑र॒द्यदाप॑: । इ॒दं तत्पुन॒राद॑दे । दी॒र्घा॒यु॒स्त्वाय॒ वर्च॑से^(२) । ^{(३)}यन्मे॒ रेत॑: प्र॒सिच्य॑ते । यन्म॒ आजा॑यते॒ पुनः॑ ॥ तेन॑ माम॒मृतं॑ कुरु । तेन॑ सु॒प्रज॑सं कुरु ॥ १ ॥

पुन॒:, दे च॑ ॥ अनु० ३० ॥

अथास्मिन् दिने 'मे' मदीयं, 'यद्वेतः', 'पृथिवीं', प्रति 'अस्कान्' प्रमादेन स्कन्नमासीत् । 'ओषधीः अपि', मदीयं 'यत्' रेतः, 'असरत्' 'प्राप्नोत्', ओषधीषु स्कन्नमित्यर्थः । अत्र रेतः, आपः, असरत्, अप्सु स्कन्नं, 'तदिदं' रेतः, 'पुनः', अपि अहं 'आददे' । किमर्थं, 'दीर्घायुस्त्वाय', 'वर्चसे' आयुर्वृद्धये, ब्रह्मवर्चसाय च ॥

अथ तृतीयामाह । ^{(३)}"यन्मे रेतः ० सुप्रजसं कुरु"^{(३)}इति । 'मे' मदीयं, 'यद्वेतः', गर्भाशये प्रकर्षेण 'सिच्यते', 'मे' मदीयं, 'यत्' रेतः, 'पुनः', अपि 'आजायते' अपत्यरूपेणोत्पद्यते, 'तेन' अपत्येन, 'मां' यजमानं, 'अमृतं' सुखयुक्तं, 'कुरु' । 'तेन' अपत्यरूपेण रेतसा, 'मां', 'सुप्रजसं' शोभनपुत्रपौत्रादिप्रजायुक्तं 'कुरु' ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके त्रिंशोऽनुवाकः ॥ ३० ॥