तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 186, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके ३१ अनुवाकः। १८१
अथैकत्रिंशोऽनुवाकः।
(१)अ॒द्भिस्ति॒रोधा॑ऽजायत । तवं॒ वैश्र॑वणः संदा॑ । ति॒रो॑धेहि सप॒त्नान्: । ये अ॒पोऽश्न॑न्ति॒ केच॑न⁽१⁾ । (२)त्वा॒ष्ट्रीं मा॒यां वैश्र॑वणः । रथँ॑ सहस्रबन्धु॒रं । पुरु॒-
अथैकत्रिंशोऽनुवाकः ।
अथ वैश्रवणयज्ञमन्त्रा उच्यन्ते । तत्र चतसृभिर्वैश्रवणमावाहयेत् । तासु प्रथमामाह । (१)“अ॒द्भिस्ति॒रोधाऽजायत ० अ॒पोऽश्न॑न्ति॒ केचन”(१) इति । अत्रानादिसिद्धः कुबेरः सम्बोध्योच्यते । हे कुबेर त्वया गृहीतो यः ‘वैश्रवणः’, विश्रवसोऽपत्यं, स खलु ‘सदा’, ‘तव’, ‘अद्भिस्तिरोधाऽजायत’ अनुपलब्धितानां त्वदीयकर्मणां तिरोधायक आसीत् । अतो वैश्रवणस्य कर्मतिरोधायकत्वं निवार्य्य, तन्मुखेन ‘नः’ अस्मदीयान् शत्रून्, ‘तिरोधेहि’ विनाशय, ‘केचन’ अन्येऽपि, ‘अपः’ अस्मदीयानि कर्माणि, ‘अश्नन्ति’ तिरोदधति, नाशयन्ति, तानपि सर्व्वांस्त्वं ‘तिरोधेहि’ ॥
अथ द्वितीयामाह । (२)“त्वाष्ट्रीं मायां ० याहि नो बलिम्”(२) इति । हे कुबेर वैश्रवणसहितस्त्वं ‘रथमास्थाय’, ‘नो बलिं’ अस्मदीयां पूजां प्रति, ‘आयाहि’ आगच्छ । कीदृशं रथं, ‘सहस्रबन्धुरं’ अराणां सहस्रं यस्मिन् चक्रे तच्चक्रं सहस्रवत्