भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१ प्रपाठके ३१ अनुवाकः। १८१

अथैकत्रिंशोऽनुवाकः।

(१)अ॒द्भिस्ति॒रोधा॑ऽजायत । तवं॒ वैश्र॑वणः संदा॑ । ति॒रो॑धेहि सप॒त्नान्‌: । ये अ॒पोऽश्न॑न्ति॒ केच॑न⁽१⁾ । (२)त्वा॒ष्ट्रीं मा॒यां वैश्र॑वणः । रथँ॑ सहस्रबन्धु॒रं । पुरु॒-


अथैकत्रिंशोऽनुवाकः ।

अथ वैश्रवणयज्ञमन्त्रा उच्यन्ते । तत्र चतसृभिर्वैश्रवणमावाहयेत् । तासु प्रथमामाह । (१)“अ॒द्भिस्ति॒रोधाऽजायत ० अ॒पोऽश्न॑न्ति॒ केचन”(१) इति । अत्रानादिसिद्धः कुबेरः सम्बोध्योच्यते । हे कुबेर त्वया गृहीतो यः ‘वैश्रवणः’, विश्रवसोऽपत्यं, स खलु ‘सदा’, ‘तव’, ‘अद्भिस्तिरोधाऽजायत’ अनुपलब्धितानां त्वदीयकर्मणां तिरोधायक आसीत् । अतो वैश्रवणस्य कर्मतिरोधायकत्वं निवार्य्य, तन्मुखेन ‘नः’ अस्मदीयान् शत्रून्, ‘तिरोधेहि’ विनाशय, ‘केचन’ अन्येऽपि, ‘अपः’ अस्मदीयानि कर्माणि, ‘अश्नन्ति’ तिरोदधति, नाशयन्ति, तानपि सर्व्वांस्त्वं ‘तिरोधेहि’ ॥

अथ द्वितीयामाह । (२)“त्वाष्ट्रीं मायां ० याहि नो बलिम्”(२) इति । हे कुबेर वैश्रवणसहितस्त्वं ‘रथमास्थाय’, ‘नो बलिं’ अस्मदीयां पूजां प्रति, ‘आयाहि’ आगच्छ । कीदृशं रथं, ‘सहस्रबन्धुरं’ अराणां सहस्रं यस्मिन् चक्रे तच्चक्रं सहस्रवत्

१८२ तैत्तिरीये आरण्यके

श्च॒क्रः स॑हस्रा॒श्वं । आस्था॒या या॑हि नो ब॒लिं(२) । (३)यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धनं॒ गावो॒ हस्ति॒हिर॑ण्य॒मश्वा॑न् ॥ १ ॥

अ॒स्याम सु॒मतौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॑तोऽन्नमुखीं वि॒राज॑म्(३) । (४)सु॒दर्श॑ने च॒ क्रौञ्चे॑ च । मै॒ना॒गे च॑ म॒-


तद्युक्ताधूर्यस्य रथस्य सोऽयं सहस्रबन्धुरः तादृशं, 'पुरुश्चक्रं' बहुचक्रोोपेतं, 'सहस्राश्वं' सहस्रसङ्ख्याकैरश्वैरुपेतं, । तस्य रथस्योपमानमुच्यते । 'त्वाष्ट्रीं मायां' यथा त्वष्ट्रा निर्मिता माया आश्चर्यकरी तद्वदाश्चर्यकरं ॥

अथ तृतीयामाह । (३)"यस्मै भूतानि ॰ विराजम्"(३) इति । 'यस्मै' कुबेराय, 'भूतानि' सर्वे प्राणिनः, 'बलिं' पूजां, 'आवहन्ति' सम्पादयन्ति । कीदृशं बलिं, धनादिरूपं, 'धनं' मणिमुक्तादिकं, हस्तिभिः सहितं हिरण्यं 'हस्तिहिरण्यं', 'यज्ञियस्य' बलिना पूजनीयस्य तस्य कुबेरस्य, 'सुमतौ' अनुग्रहबुद्धौ, 'अस्याम' अवस्थिता भूयास्म । कीदृशस्य कुबेरस्य, 'अन्नमुखीं' अन्नप्रधानां, 'विराजं' विविधं राजमानां, 'श्रियं' सम्पदं, 'बिभ्रतः' धारयतः ॥

अथ चतुर्थीमाह । (४)"सुदर्शने ॰ संहार्यं नगरं तव"(४) इति । सुदर्शनादिनामकास्त्रयः पर्वताः तस्मिश्चैकैकस्मिन् 'महागिरौ', यत् 'तव नगरं', तत् 'संहार्यं', तत् परित्यज्य

१ प्रपाठके ३१ अनुवाकः । १८३

हागिरौ । स॒तदा॒ट्टारं॑ग॒मन्ता । स॒ꣳहार्यं॑ नगरन्तव॑^(४) । ^(५)इति मन्त्राः । कल्पोत ऊर्ध्वं^(५) । ^(६)यदि॒ बलिं॑ꣳ- हरे॑त् । हिर॑ण्यनाभये॑ वितु॒दये॑ कौबेरा॒यायं ब॑लिः ॥२॥ सर्वभूताधिपतये नम॒ इति॑ । अथ बलिं॑ꣳहृ॒त्वोप॑-


अस्मदनुग्रहार्थमत्रागच्छेदित्यर्थः । कीदृशं नगरं, 'सतदाट्टार- गमन्ता' सन्तः, शतं वा द्वाराणि, अट्टारः कक्ष्याविशेषाः गम- न्ताः, गमनयोग्या रथ्याविशेषाः शतसङ्ख्याका द्वारविशेषाः कक्ष्याविशेषा रथ्याविशेषाश्च यस्मिन् नगरे तं नगरं सतद्वा- ट्टारगमन्ता ॥

श्रोतृबुद्धिसमाधानार्थं पूर्वोत्तरग्रन्थौ विभजते । ^(५)“इति मन्त्राः ० ऊर्ध्वम्”^(५) इति । 'इति' एवमुक्ता, अङ्गास्तिरोधे- त्यादयो नगरन्तवेत्यन्ता मन्त्रा द्रष्टव्याः । 'अत ऊर्ध्वं', यदि बलिं हरेदित्यादिग्रन्थः 'कल्पः' अनुष्ठानविधायकब्राह्मणरूपः ॥

तद्दिधां दर्शयति । ^(६)“यदि बलिꣳहरेत् ० हत्वोपत्ति- ष्ठेत”^(६) इति । 'यदि'शब्दप्रयोगाद्बलिहरणं वैकल्पिकमिति गम्यते । तस्मिन् बलिहरणपक्षे हिरण्येत्यादिमन्त्रेण बलिं हुत्वा वक्ष्यमाणमन्त्रेणोपस्थानं कुर्यात् । कुबेरस्य सम्बन्धी वैश्रवणः कौबेरः, हिरण्यं नाभौ यस्यासौ हिरण्यनाभः सर्वाभरण- भूषित इत्यर्थः । हिरण्यं दुर्लभं कुर्वन् सर्वप्राणिनो विशेषेण तुदति व्यथयतीति 'वितुदिः', यथोक्तगुणयुक्ताय वैश्रवणाय

१८४ तैत्तिरीये आरण्यके

तिष्ठे॑त॒^(६) । ^(७)क्षत्रं॒ क्षत्रं॑ वैश्रव॒णः । ब्राह्म॒णा वय॑ँ स्मः ।
नम॑स्ते अस्तु॒ मा मां॑ हिँ॒सीः । अ॒स्मात् प्र॒विश्यान्न॑म॒-
द्धीति॑^(७) । ^(८)अथ तम॒ग्निमाद॑धीत । य॒स्मिन्ने॒तत्कर्म॑
प्र॒युञ्जी॑त॒^(८) । ^(९)ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ ३ ॥


'अयं बलिः', मया दत्तः, सर्वप्राणिनामधिपतये तस्मै वैश्रव-
णाय 'नमः', अस्तु। इत्युक्तो बलिहरणमन्त्रः ॥

^(७)"क्षत्रं क्षत्रं ० प्रविश्यान्नमद्धीति"^(७) इति। अत्रैकः
क्षत्रशब्दः क्षतात् त्रायत इति व्युत्पत्त्या पालकत्वं ब्रूते, द्वि-
तीयः क्षत्रशब्दो जातिवाची, अयं 'वैश्रवणः', 'क्षत्रं क्षत्रं' पा-
लकः, क्षत्रियत्वजातियुक्तश्च, 'वयं' यजमानाः, ब्राह्मणजाति-
युक्तास्तेन पालनीयाः 'स्मः', अतः 'ते' वैश्रवणाय, 'नमः', 'अस्तु',
'मा मा हिंसीः' हिंसितं मा कुरुतः, यस्माद्वयं ब्राह्मणत्वेन
नमस्कर्तृत्वेन च त्वया पालनीयाः 'अस्मात्' कारणात्, अत्र
बलिस्थाने 'प्रविश्य', 'अन्नं' अस्माभिर्दत्तं बलिरूपं, 'अद्धि'
भक्षय। 'इति' असौ, उपस्थानमन्त्रः ॥

अग्निस्थापनं विधत्ते। ^(८)"अथ तमग्निमादधीत ० प्रयु-
ञ्जीत"^(८) इति। 'यस्मिन्' अग्नौ, वैश्रवणबल्याख्यं 'एतत् कर्म',
प्रयुज्यते। 'तमग्निं', पूर्वोक्तोपस्थानानन्तरं भूमौ स्थापयेत् ॥

स्थापनीयं मन्त्रं दर्शयति। ^(९)"तिरोधा भूः ० पत्त्ये सीदे-
ति"^(९) इति। हे अग्ने 'भूस्तिरोधा' भूर्लोकं स्वतेजसाच्छादय,

१ प्रपाठके ३१ अनुवाकः । १८५

तिरो॑धा॒ स्व॑: । तिरो॒धा भूर्भुवः॒ स्व॑:। सर्वे॑षां लोकाना- माधि॑पत्ये॒ सीदेति॑^(९) । ^(१०)अथ॒ तम॒ग्नि॑मिन्धीत । यस्मि॑न्ने- तत् कर्म॑ प्रयु॒ञ्जीत॑^(१०) । ^(११)तिरो॑धा॒ भूः स्वाहा॑ । तिरो॑- धा॒ भुवः॒ स्वाहा॑ । तिरो॑धा॒ स्व॑: स्वाहा॑ । तिरो॑धा॒ भूर्भु- वः॒ स्व॑: स्वाहा॑^(११) । ^(१२)यस्मि॑न्नस्य का॒ले सर्वा॒ आहु॑ती- र्हु॒ता भवे॒युः ॥ ४ ॥ अ॒पि ब्राह्म॑णमु॒खीनाः॑ । तस्मि॑न्नह्नः॒ काले॑ प्रयु॒ञ्जीत॑ ।


एवं 'भूः', लोकः 'स्वः', लोकः वा, एकैकशः समुदायरूपेणापि सर्वान् व्याप्नुहि। व्याप्य च 'सर्वेषां' एतेषां, 'लोकानां', 'आधि- पत्ये' अधिकपालननिमित्तं, 'सीद' अत्रोपविश । 'इति' अय- मग्निस्थापनमन्त्रः ॥

समिन्धनं विधत्ते । ^(१०)"अथ तमग्नि ॰ प्रयुञ्जीत"^(१०)इति । पूर्ववद्व्याख्येयं ॥

समिन्धनमन्त्रान् दर्शयति । ^(११)"तिरोधा ॰ तिरोधा भूर्भुवः स्वः स्वाहा"^(११)इति । 'स्वाहा' समिदियं स्वाहुतमस्तु । अन्यत् पूर्ववत् ॥

अस्य वैश्रवणयज्ञस्य कालविशेषं दर्शयति । ^(१२)यस्मिन्नस्य • सुप्रजनाद्देपि"^(१२) इति । 'अस्य' आरुणकेतुकस्य, सम्बन्धः, 'ब्राह्मणमुखीनाः' रुद्रो वा एषः यदग्निः स एतर्हि जात इत्यादि ब्राह्मणप्रतिपादिताः शतरुद्रीयादयः, 'सर्वा अपि', आहु- तयः 'यस्मिन् काले', 'हुता भवेयुः', तदहःसम्बन्धिनि

१८६ | तैत्तिरीये आरण्यके

पर॑: सु॒प्तज॑नाद्वेपि॑॥१२॥ । ^{(१३)}मा स्म॑ प्रमा॒द्यन्त॑मध्याप- येत् । सर्वा॒र्थाः सि॑ध्यन्ते । य ए॒वं वेद॑ । क्षुध्य॒न्निद॑- मजा॑नतां । सर्वा॒र्था न॑ सिध्यन्ते^{(१३)} । ^{(१४)}यस्ते॑ विघा- तु॑को भ्राता॑ । ममा॒न्तर्हृद॑ये श्रितः ॥ ५ ॥ तस्मै॑ इ॒ममग्र॑पिण्डं जु॒होमि॑ । स मेऽर्थान् मा विव॑-


'तस्मिन् काले', वैश्रवणयज्ञं 'प्रयुञ्जीत', 'वेपि' अपि वा, 'सुप्त- जनात् परः', सर्वेषु जनेषु सुप्तेषूत्तरस्मिन् काले ॥

एतदीयग्रन्थाध्ययने नियमं दर्शयति । ^{(१३)}“मा स्म प्रमा- द्यन्तमाध्यापयेत् ० सर्वाथा न सिध्यन्ते”(१३) इति । 'प्रमा- द्यन्तं' प्रमादयुक्तं दुर्वृत्तं पुरुषं, 'इदं' वैश्रवणबलिकर्म, गुरुमु- खात् 'अजानतां', पुरुषाणां 'क्षुध्यन्' क्षुध्यतां अन्नाभावेन दरिद्राणां, 'न', केऽपि कामाः सिध्यन्ति, अन्नमपि तैर्न लभ्यते कुतोऽन्यकामप्राप्तिरित्यर्थः ॥

अथ बलिहरणमन्त्रं दर्शयति । ^{(१४)}“यस्ते विघातुकः ० मयि स्वाहा”(१४) । हे कुबेर 'विघातुकः' सर्वेषां हिरण्यलाभ- विघ्नकरणशीलः 'ते' तव, 'यः' 'भ्राता' वैश्रवणः, सोऽयं 'ममा- न्तर्हृदये', ध्येयत्वेन 'आश्रितः', 'तस्मै' वैश्रवणाय, 'इमं', 'अग्र- पिण्डं' श्रेष्ठपिण्डं, 'जुहोमि'। 'सः' वैश्रवणः, 'मेऽर्थान्' मदीयान् हिरण्यलाभादीन् पुरुषार्थान्, 'मा विवधीत्' मा विनाशयतु, किन्तु मह्यं सम्पादयतु तदर्थमिदं स्वाहुतमस्तु ॥

अथोपस्थानमन्त्रमाह । ^{(१५)}“राजाधिराजाय ० मा ते

१ प्रपाठके ३१ अनुवाकः । १८७

धीत् । मयि॒ स्वाहा॑^(१४) । ^{(१५)}रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने॑ । नमो॑ व॒यं वै॑श्रव॒णाय॑ कुर्महे । स मे॒ कामान्॒ काम॒कामा॑य॒ मह्य॑म् । कामे॑श्व॒रो वै॑श्रव॒णो द॑दातु । कु॒- बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॑ अ॒रु- णास॑श्च ॥ ऋ॒षयो॑ वा॒तर॑शनाः । प्र॒ति॒ष्ठाँ शत॑धा॒हि । स॒माहि॑तासो स॒हस्र॑धार्यसं । शि॒वानः॑ श॒न्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्योम॒ संदृ॑शि^(१५) ॥ ६ ॥

व्योमसंदृशि”^(१५) इति । राज्ञां सर्वेषामधिकत्वेन यो राज्य- स्वामी सोऽयं ‘राजाधिराजः’, तस्मै, बलात्कारेण सर्वेषां लाभानां योऽभिभविता प्रतिबन्धकः स ‘प्रसह्यसाही’, तस्मै, ‘वैश्रवणाय’, ‘वयं’ यजमानाः, ‘नमस्कुर्महे’ । ‘कामेश्वरः’ सर्वेषां कामानां स्वामी, स ‘वैश्रवणः’, ‘कामकामाय’ बलभोगार्थिने, ‘मह्यं’, ‘मे कामान्’ मदपेचितान् सर्वान् भोगान्, ‘ददातु’ । कुबेररू- पाय ‘महाराजाय वैश्रवणाय’, ‘नमः’, अस्तु । केतव इत्या- दिकं पूर्वमेव व्याख्यातं । अस्य च वैश्रवणयज्ञस्यारुणकेतुकान्तः प्रयोगे बहिश्च स्वातन्त्र्येण प्रयोग इत्युभयप्रकारो विद्यते । तच्च सर्वाहुतिहोमान्ते बौधायनेन दर्शितं । वैश्रवणयज्ञो ब्राह्म- णेन व्याख्यातोऽन्नकामस्य सर्वकामस्य वा पर्वणि पर्वणि वैश्रवण- यज्ञः । सोत्तरवेदिषु क्रतुषु चिन्वीतेति यथा ब्राह्मणमित्यादि ॥ z 2

१८८ तैत्तिरीये आरण्यके

अ॒श्वान्, बलिः॑, भुवः॑, भ॒वेयुः॑, श्रितः॑, च॑, सप्त॒ च॑ ॥ अनु० ३१ ॥

अथ द्वात्रिंशोऽनुवाकः ।

(१)सं॑वत्सरमे॒तद्व्र॒तञ्च॑रेत् । द्वौ वा॒ मासौ॑(१) । (२)नि॒यमः समासे॑न(२) । (३)तस्मि॑न् नियमवि॒शेषाः॑ । त्रिषवणमुद॑कोपस्पृ॒शी । चतुर्थकालपान॑भक्तः स्यात् ।


इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके एकत्रिंशोऽनुवाकः ॥ ३१ ॥


अथ द्वात्रिंशोऽनुवाकः ।

अथारुणकेतुकचयनाङ्गव्रतं विधत्ते । (१)“संवत्सरं ० वा मासौ”(१) इति । यो ह्यारुणकेतुकमग्निं चेतुमिच्छति सोऽधि- कारसिद्ध्यर्थमादौ ‘संवत्सरं’, ‘वा’, मासद्वयं वा वक्ष्यमाणं ‘व्रतं’, अनुतिष्ठेत् ॥

व्रतशब्दार्थमाह । (२)“नियमः समासेन”(२) इति । योऽयं ‘नि- यमः’ स्वीकारः, तदेव व्रतं । एतच्च ‘समासेन’ सङ्क्षेपेण, दर्शितं ॥

अथ विस्तारं प्रतिज्ञापूर्वकं दर्शयति । (३)“तस्मिन् ० काण्ड ऋषयः”(३) इति । नियमो व्रतमित्येव सामान्यलक्षण- मुक्तं ‘तस्मिन्’ व्रते, अनुष्ठेयाः ‘नियमविशेषाः’, क्रमेणोच्यन्ते । सूयते सोमो अत्रेति सवनं, तत् त्रिविधं, प्रातर्मध्यन्दिनसायङ्का- लभेदात्, तस्मिन् सवनत्रये उदकमुपस्पृशेत्, स्नायादित्यर्थः ।

१ प्रपाठके ३२ अनुवाकः । १८६

अहरहर्वा भैक्ष॒मश्नीयात् । औदुम्बरीभिः समि॒द्भिर॒ग्निं परि॑चरेत् । पुन॒र्मा मैत्विन्द्रि॒यमित्येतेनानु॑वाके॑न । उ॒द्धृत परिपूताभिर॒द्भिः कार्यं॑ कुर्वी॒त ॥ १ ॥ अ॒सञ्च॑यवान् । अग्नये॒ वायवे॒ सूर्या॑य । ब्रह्म॑णे प्र॒जाप॑तये । च॒न्द्रम॑से॒ नक्ष॑त्रेभ्यः । ऋ॒तुभ्यः सं॑वत्स॒राय॑ ।

पानं, क्षीरादिविषयं, भक्तमन्नं, तदुभयमपि प्रतिदिनं कालद्वये स्वीक्रियते । तस्माद् द्विरन्नो मनुष्येभ्यः उपह्रियते । प्रातश्च सायञ्चेत्याम्नातत्वात्, तथा प्रातर्भुक्तवतः सायं द्वितीयः कालः, परेद्युः प्रातःकालस्तृतीयः, तत्रैव सायं चतुर्थः कालः, मध्यवर्त्तिनौ द्वितीयतृतीयकालौ परित्यज्य तस्मिंश्चतुर्थकाले पानं भक्तं च यस्यासौ 'चतुर्थकालपानभक्तः', तथाविधो भवेत् । अथवा प्रतिदिनं भिक्षित्वा तदन्नं भुञ्जीत, सोऽयं पक्षोऽशक्तविषयः । उदुम्बरवृक्षजन्याभिः 'समिद्भिः', अग्निपरिचर्यां कुर्यात् । तस्मिन् समिदाधाने मन्त्राः 'पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन', उक्ताः । स चानुवाकः पूर्वमेव व्याख्यातः । आपः, नदीतडाकादिभ्यः पात्रेणोद्धृता वस्त्रेण शोधिताश्च, ताभिः पादप्रक्षालनाचमनादिकं कुर्यात्, न तु नद्यादौ, यत्कार्य्यः सञ्चयो भिक्षापात्रादन्यत्र भक्ष्यादिवस्तुसङ्ग्रहः, तद्युक्तो न भवेत् । प्रतिदिनमग्न्यादित्योरुक्ताभ्यो देवताभ्यो होमं कुर्यात् । व्रतहोममनियुक्तत्वात् स्वाहाकारोऽर्थलभ्यः । ततोऽग्नये स्वाहा वायवे स्वाहेत्यादयो मन्त्राः सम्पद्यन्ते । आदिश्यते वि-

१६० तैत्तिरीये आरण्यके

वरुणायारु॒णायेति॑ व्रत॒होमाः॑ । प्र॒वर्ग्य॑वदादे॒शः । अ॒रु॒णाः का॑ण्ड ऋषयः^(३) । ^(४)अर॑ण्येऽधीयीर॒न् । भ॒द्रं कर्णे॑भिरिति॒ द्वे ज॑पित्वा ॥ २ ॥

महानाम्नीभिरुदकꣳ संꣳस्पृ॒श्य॑ । तमाचा॒र्यो द॑द्यात् ।
शि॒वा नः॑ श॒न्तमे॒त्योष॑धी॒राल॑भते । सुमृ॒डीकेति॒ भूमि॑म् ।

धीयत इति 'आदेशः', अनुष्ठेयोऽर्थः, स च 'प्रवर्ग्यवत्', अत्राव- गन्तव्यः, प्रवर्ग्याध्ययनादौ ये धर्मास्तेऽत्राप्यनुष्ठेयाः। ते च प्रव- र्ग्यधर्मा आपस्तम्बेन सूचिताः, संवत्सरमेतद्व्रतं चरेदेतस्मिन् संव- त्सरेऽधीयीत यद्येतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत् संवत्सरे पर्यवेते श्रिते च्छदिर्दर्भैरग्निमुपसमाधाय सम्परिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्येत्यादयः । तानेतान् धर्मान् वा चरेत्, अरण्याख्ये अत्र 'काण्ड ऋषयः', तेऽपि होतव्या इत्यर्थः॥

अथारुणकेतुकचयनप्रतिपादितस्य ग्रन्थस्याध्ययने निय- मान् विधत्ते । ^(४)"अर॑ण्येऽधीयीरन् ॰ पुण्यो भवति"^(४) इति । सोऽयं ग्रन्थः 'अरण्ये', एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्यर्थं 'भद्रं कर्णेभिरिति द्वे' ऋचौ, जपेत् । आपमापामि- त्येताभिः 'महानाम्नीभिः' ऋग्भिः, अध्येतारं माणवकं 'उदकं', स्पर्शयेत्, ततः 'तं' माणवकं, 'आचार्यो दद्यात्' व्रताय नि- युञ्जीत, शिवा न इति मन्त्रेणौषधीः स्पृशेत् । सुमृडीका सर- स्वतीति मन्त्रेण 'भूमिं', स्पृशेत् । यथाध्ययनस्योपक्रमे सर्वमे- तदनुष्ठितं, एवमध्ययनस्यावसानेऽपि सर्वमेतदनुतिष्ठेत् । कृ-

१ प्रपाठके ३२ अनुवाकः । १६१

ए॒वम॑पव॒र्गे । धे॒नुर्दक्षि॑णा । कꣳसं वास॑श्च क्षौम॑म् । अन्य॑दा शु॒क्लम्॑ । यथा॑श॒क्ति वा॑ । एवꣳ स्वाध्यायध- र्मेण॑ ॥ अर॑ण्ये॑ धीयीत । तप॑स्वी पु॒ण्यो भ॑वति तप॑स्वी पु॒ण्यो भ॑वति^(४) ॥ ३ ॥

कु॒र्वीत॒, जपि॒त्वा, स्वाध्याय॑ध॒र्मेण॒, द्वे च॑ ॥ अनु० ३२ ॥

भद्रꣳ, स्मृ॒तिः, सा॒कं जा॒नाम्, अ॒क्षि, अ॒तिता॒म्राणि॑, अत्यू॒र्ध्वाक्षः॑, आ॒रोगः॑, क॒दम्, अ॒ग्निश्च॑, संह॒स्रत्, प॒वि- त्र॑वन्तः॑, आ॒तनु॒ष्व॒, अ॒ष्टयो॑नीं, योऽसौ॑, अ॒थादि॒त्यस्य॑, आ॒रोग॒स्य॒, अथ॑ वा॒योः, अथा॒ग्नेः, द॒क्षिण॒पूर्व॑स्यां, इ॒न्द्रघो॒षावः॑, आप॑मा॒पां, योऽपां, आपो॒ वै, च॒तुष्ट॑य्यः, जानुद॒घ्नीम्, अ॒ग्निं प्र॒णीय॑, इ॒मानुकं॑, विशी॒र्णीं, प॒- र्जन्या॑य॒, पुन॑:, अ॒ङ्गाः, सं॑वत्स॒रं दात्रिꣳशत् ॥ ३२ ॥

भद्रं॑, ज्यो॒तिषा॑प्र॒तिख्ये॑नं, त॒स्मिन्ना॒जानं॑, कृ॒श्य- पा॑त्, स॒हस्र॑र॒दियं॑, नपुं॑सकम्, अ॒ष्टयो॑नीम्, अथा॒ग्ने, य


त्तनाध्ययनस्य समाप्तावाचार्याय 'धेनुर्दक्षिणा', देया भोज- नार्थं कांस्यपात्रं देयं, प्रावरणार्थं 'क्षौमं', वस्त्रं देयं । तद- शक्तौ 'अन्यत्' कार्पासमयं, 'शुक्लं', वस्त्रं देयं । अत्यन्तमशक्तेन 'यथाशक्ति' किमपि देयं, 'एवं', एवमुक्तेनाध्ययनधर्मेण युक्तः सन्, 'अरण्ये', गुरुमुखाद्ग्रन्थं 'अधीयीत', एवमधीयानो व्रतनियमानु- ष्ठानात्तपोयुक्तो भवति । अभ्यासोयं मङ्गलार्थः ॥

१६२ तैत्तिरीये आरण्यके

ए॒वं वेद॑, ये नखा॑:, अ॒सौ वै प॑ल्खल्या॑:, अ॒मृतं॒ वा आप॑:, अ॒ङ्ग्य॑:, नवविग्ं‌शोत्तरं शतं* ॥ १२६ ॥

भद्रं द॑धातु। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः ॐ ॥ तत् सत् ॥

भद्रं कर्णे॑भिः शृणुयाम॑ देवाः। भद्रं प॑श्येमाक्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गैᳵस्तुष्टुवाग्ं॒सस्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृद्ध॒श्रवाः॑। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु। ॐ शान्तिः॑ ३॥ हरिः ॐ ॥

नमो॒ ब्रह्म॑णे नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये नमो॒ विष्ण॑वे बृ॒ह॒ते क॑रोमि ॥ ॐ शान्तिः॑ ३ ॥ ॐ ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

समाप्तोऽयं प्रथमः प्रपाठकः ॥


* दशदशत्यनन्तरं प्रतीकमात्रं प्रदर्शितं। किन्तु १०६ एकाख्याऽष्टयेानोत्यतः परं अद्याय इति प्रतीकपर्य्यन्तमेकादशदशतयः सन्ति। एता हि सङ्कलनया त्रिंशोत्तरशतं दशतयो भवन्ति।

तैत्तिरीये आरण्यके

द्वितीयप्रपाठके प्रथमोऽनुवाकः ।


(१)सह॒ वै दे॒वाना॑ञ्चासु॒राणा॑ञ्च य॒ज्ञौ प्र॑ततावास्तां व॒यꣳ स्वर्गं लो॒कमै॒ष्यामो व॒यमै॒ष्याम॒ इति॒ तेऽसु॑राः सं॒नह्य॑ सह॒सैवा॑चरन्॒ ब्रह्मचर्येण॒ तप॑सैव दे॒वास्तेऽ-


तैत्तिरीये आरण्यके

द्वितीयप्रपाठके प्रथमोऽनुवाकः ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रपाठके हि प्रथमे वह्निरारुणकेतुकः ।
सम्यक् प्रोक्तो द्वितीये स्यात्* स्वाध्यायब्राह्मणाभिधे ॥

तत्राद्येऽनुवाकेऽध्ययनाङ्गत्वेन यज्ञोपवीतं विधातुं तत्प्रशंसार्थमादावुपाख्यानमाह । (१)“सह वै • पराभावयन्”(१) इति । ‘वयं’, एव आधिपत्यनिमित्तं ‘स्वर्गं’, गमिष्याम इत्येवं ‘देवाः’, यदा† यज्ञे प्रवृत्ताः तदानीमेव‡ ‘असुराः’, अपि


* द्वितीये तु इति तै० पाठः ।
† यथा इति तै० पाठः ।
‡ तथा इति तै० पाठः ।

२ A

१८६तैत्तिरीये आरण्यके

सु॑रा अमू॑ह्य॒ꣳस्ते न प्राजा॑न॒ꣳस्ते परा॑भवन्ते न स्वर्गं॑ लो॒कमा॑य॒न् प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्वर्गं॑ लो॒कमा॑य॒न्नप्र॑सृतेनासु॑रान् परा॑भावयन्⁽¹⁾ ⁽²⁾प्रसृ॑तो ह॒ वै य॑ज्ञोप॑वीतिनो य॒ज्ञोऽप्र॑सृतोऽनुप॑वीतिनो॒ यत्किञ्च॑ ब्रा-


तथैवाभिप्रेत्य यज्ञे* प्रवृत्ताः, तावुभौ 'यज्ञौ', 'प्रततौ' विस्तीर्णौ, 'आस्तां' । तदानीं तथाविधाः 'असुराः', 'सन्नह्य' कृतसन्नाहाः, 'महसैव' भुजबलमात्रेणैव 'आचरन्' यज्ञमारब्धवन्तः, 'ते', मौर्ख्यात् ब्रह्मचर्यादिनियमं नादृतवन्तः । 'देवाः', तु ब्रह्मचर्यात् समस्ततपसा† युक्ताः सन्तो यथाशास्त्रमनुष्ठितवन्तः । 'ते', मूर्खाः 'असुराः', 'अमुह्यन्' मौर्ख्यपारवश्येन मोहं प्राप्ताः, मूढाः सन्तः कर्त्तव्याकर्त्तव्यं किमपि 'न प्राजानन्' । ततो यथाशास्त्राननुष्ठानाभावात् स्वर्गं न प्राप्ताः । 'देवाः', तु 'प्रसृतेन', एव 'यज्ञेन', 'स्वर्गं', प्राप्ताः, 'अप्रसृतेन यज्ञेन', युक्तान् 'असुरान् पराभावयन्' ॥

अथ प्रसृताप्रसृतयोः स्वरूपं विभजते । (१)“प्रसृतो ह वै ० यजत एव तत्”(२) इति । यज्ञोपवीतयुक्तस्य यः अयं 'यज्ञः', सोऽयं गुणाधिक्यात्‡ 'प्रसृतः' प्रकर्षेण वृत्त इत्युच्यते । 'अनुपवीतिनः' यज्ञोपवीतरहितस्य, 'यज्ञः', गुणहीनत्वात्


* तथैवाभिप्रेत्य यज्ञे इति पाठस्तु तै० पुस्तके नास्ति ।
† ब्रह्मचर्यात्मना तपसा इति तै० पाठः ।
‡ गुणाधिक्यवशादिति तै० पाठः ।

२ प्रपाठके १ अनुवाकः। १६५

ह्मणो॑ य॒ज्ञोप॑वीत्यधी॒ते यज॑त ए॒व तत्⁽२⁾ ⁽२⁾तस्मा॑- द्यज्ञोपवी॒त्ये॑वाधीयीत॒ याज॑येद्य॒जेत॑ वा य॒ज्ञस्य॒ प्रसृ॑त्यै⁽३⁾ ⁽४⁾अ॒जिनं॒ वासो॑ वा द‌क्षिण॒त उप॑वीत*⁽४⁾ ⁽५⁾द‌क्षि॑णं

‘अप्रसृतः’, इत्युच्यते। ‘किञ्च’, ‘ब्राह्मणः’, यज्ञोपवीतयुक्तः सन् ‘यत्’ किमपि, ‘अधीते’, तत् सर्वं यागानुष्ठानसमं भवति॥ तदेवं यज्ञोपवीतं प्रशंस्याध्ययनोपयोगं वदन् यज्ञानां†- मङ्गत्वेन विधत्ते। ⁽२⁾“तस्माद्यज्ञोपवीत्येवाधीयीत • प्रसृत्यै”⁽३⁾ इति। ‘प्रसृतिः’ प्रकृष्टगुणयुक्तत्वं॥ यज्ञोपवीतसाधनं द्रव्यं विधत्ते। ⁽४⁾“अजिनं • उपवीत” ⁽४⁾ इति। कृष्णाजिनवस्त्रयोरन्यतरद्रव्यं दक्षिणभागे लम्बमानं कृत्वाधीयीतेत्यर्थः। एवमध्ययनादावनेनैव वाक्येन विहितस्यापि यज्ञोपवीतस्य दर्शपूर्णमासप्रकरणे निवीतं मनुष्याणामित्यत्र‡ पुनर्विधानं तदतिक्रमे तत्रत्यविशेषप्रायश्चित्तार्थं॥ यज्ञोपवीतप्रसङ्गात् त्रयाणामपि लक्षणं दर्शयति। ⁽५⁾“द- क्षिणं बाहुमुद्धरते • संवीतं मानुषं”⁽५⁾ इति। ‘दक्षिणं बाहुं’, ऊर्ध्वं धृत्वा§ सव्ये बाहौ लम्बमाने सति यद्वेष्टनं तत् ‘यज्ञोप- वीतं’। ‘एतदेव विपरीतं’ सव्यबाहोरूर्ध्वं धारणं दक्षिण- बाहोर्लम्बमानञ्चेद्भवति तदा वेष्टनं ‘प्राचीनावीतं’, इत्युच्यते।


* उपवीय इति तै० पाठः। † अध्ययनयजनयज्ञानामिति तै० पाठः।
‡ मनुष्याणामिति तै० पाठः। § कृत्वा इति तै० पाठः।
२ A २

१६५तैत्तिरीये आरण्यके

बा॒हुमुद्ध॑र॒ते व॑ध॒ते* स॒व्यमि॑ति॑ य॒ज्ञोप॑वी॒तमे॒तदे॒व वि॑परीतं प्राची॒नावी॒तः संवी॒तं मानु॑षम्<sup>(५)</sup> ॥ १ ॥


अथ द्वितीयोऽनुवाकः ।

<sup>(१)</sup>रक्षाग्॑सि ह॒वा पुरो॑नुवा॒के तपो॑ऽग्रम॑तिष्ठन्त॒ तान् प्र॒जाप॑ति॒र्वरे॑णो॒पाम॑न्त्रयत॒ तानि॒ वर॑म॑वृणीतादि॒त्यो


बाह्वोरुभयोरप्यधोलम्बमानयोरंसदद्वयमं 'संवीतं', तदेतत् 'मानुषं' मनुष्याणामृषीणाञ्च यज्ञोपवीतं, देवानां यथा 'प्राचीनावीतं', पितॄणां तद्वत् ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके<sup></sup> प्रथमोऽनुवाकः ॥ १ ॥


अथ द्वितीयोऽनुवाकः ।

प्रथमे यज्ञोपवीतविधानमुक्तं<sup></sup> । द्वितीये सन्ध्योपासनविधान<sup>§</sup>मुच्यते । तत्प्रशंसार्थमादावाख्यायिका<sup></sup> माह । <sup>(१)</sup>"रक्षांसि हवा पुरोऽनुवाके • नाम्भसा शाम्यन्ति"<sup>(१)</sup>इति । 'हवा'शब्दः प्रसिद्धार्थः, 'पुरोऽनुवाकः' पूर्वकालः, पुरः, इत्येव पूर्वैरनूच्यते<sup></sup>


* वधत्ते इति तै० पाठः ।
† द्वितीयकारके इति तै० पाठः ।
‡ यज्ञोपवीतविधानमुक्त्वा इति तै० पाठः ।
§ सन्ध्योपासनविधिरिति तै० पाठः ।
॥ आदावुपाख्यानमिति तै० पाठः ।
¶ सर्वैरनूद्यते इति तै० पाठः ।

२ प्रपाठके २ अनुवाकः । १६७

नो योद्धा॒ इति॒ तान् प्र॒जाप॑तिरब्रवीद्योधय॑ध्व॒मिति॒ तस्मा॑दुत्तिष्ठन्तँ॑ ह॒वा तानि॒ रक्षा॑ँस्यादि॒त्यं योधयन्ति॒ याव॑दस्त॒मन्व॑गात्तानि॑ ह॒वा ए॒तानि॒ रक्षा॑ँसि गाय॒त्रि- या॑*भिमन्त्रि॒तेनाम्भ॑सा शाम्यन्ति॒^(१) ^(२)तदु॑ ह॒वा ए॒ते

न लिदानीमिति वा पश्चादिति वोच्यते, एतादृशे पूर्वकाले रक्षांसि खलु 'उग्रं' श्रेष्ठं तोत्रं, 'तपः', 'अतिष्ठन्' कृतवन्तः, तेन तपसा तुष्टः 'प्रजापतिः', 'तान्' रक्षोविशेषान्, 'वरेण', 'उपामन्त्रयत' उपच्छन्दितवान्,† वरं वृणीध्वमित्युक्त्वा तान् परितोष्य तपसो निवारितवान् । 'तानि' रक्षांसि, 'आदित्यः', 'नः' अस्माकं, 'योद्धा', भवतु 'इति' एवं, 'वरं अवृणीत' । 'प्रजापतिः', 'तान्', आदित्येन सह युद्धं कुरुतेत्यनुज्ञां दत्तवान् । 'तस्मात्' कारणात्, 'तानि' रक्षांसि, 'उत्तिष्ठन्तं ह वा' उद्यन्तमेव, 'आदित्यं', 'योधयन्ति' युद्धे प्रवर्त्तयन्ति । 'यावत्', अयं आदित्यः 'अस्तमन्वगात्' अस्तं प्राप्नोति । उदयमारभ्य तावदादित्येन सह युद्धं कुर्वन्ति तदा च युद्धे प्रवृत्तानि 'तानि' रक्षांसि, तत् सवितुर्वरेण्यमित्यनया 'गायत्र्या', अभिमन्त्रितं यज्जलन्तेनैव 'शाम्यन्ति', नान्येन केनापि ॥

इत्यनेना‡ख्यानेन जलं प्रशंस्यार्घ्यमभिधत्ते । ^(२)“तदु हवा •


* गायत्र्या इति तै० पाठः । † उपदेशितवानिति तै० पाठः ‡ इत्यमाख्यानेन इति तै० पाठः ।

१६८ तैत्तिरीये आरण्यके

ब्रह्म॒वादि॑नः पूर्वाभिमु॒खाः सन्ध्यायां॑ गाय॒त्रिया॑*भि॒म-
न्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षिप॑न्ति॒ ता ए॒ता आपो॑ वज्रीभू॒-
त्वा तानि॒ रक्षाँ॑सि मन्देहारु॒णे द्वीपे॑ प्रक्षि॑पन्ति⁽१⁾
⁽१⁾यत्प्र॑द॒क्षिणं प्र॒क्रम॑न्ति॒ तेन॑ पा॒प्मान॑मवधुन्वन्ति⁽२⁾
⁽४⁾उद्यन्त॑मस्तं॒ यन्त॑मादि॒त्यम॑भिध्यायन् कुर्वन् ब्राह्म-

प्रक्षिपन्ति”(१) इति । यस्मादनेन जलेन रक्षसां शान्तिः, ‘तदु ह वै’ तस्मादेव कारणात्, ‘एते’ लोके दृश्यमानाः, ‘ब्रह्मवादिनः’ वेदस्य वक्तारः, ‘सन्ध्यायां’ प्रातःसन्ध्याकाले, ‘पूर्वाभिमुखाः’, सन्तः गायत्र्याभिमन्त्रितं जलं ‘ऊर्ध्वं’, ‘विक्षिपन्ति’, प्रक्षिपेयुरित्यर्थः। ‘ताः’ च विक्षिप्ताः†, ‘आपः’, गायत्रीसामर्थ्याद्वज्ररूपं प्राप्य ‘तानि’ आदित्ययुद्धार्थमागतानि, ‘रक्षांसि’, मन्देह्नामकानां रक्षसां स्वभूते कस्मिंश्चिदरुणाम्नि द्वीपे‡ ‘प्रक्षिपन्ति’ ॥

अथ प्रदक्षिणावृत्तिं विधत्ते । ⁽२⁾“यत् प्रदक्षिणं ० पाप्मानमवधून्वन्ति”⁽२⁾ इति । ‘प्रदक्षिणं’ प्रारम्भावर्त्तनं, प्रक्रमेय्युः§ । तेन च पापक्षयो भवति ॥

अथ ध्यानं विधत्ते । “⁽४⁾उद्यन्तमस्तंयन्तं ० आदित्यो ब्रह्मेति”⁽४⁾ इति । अयं परिदृश्यमानः ‘आदित्यः’, ‘ब्रह्मेति’, शास्त्रतः ‘विद्वान्’, पुमान् ‘उद्यन्तं अस्तं यन्तं’, वा ‘आदित्यं’,


* गायत्र्या इति तै० पाठः । † विक्षिप्ताः इति तै० नास्ति ।
‡ अरुणे अस्मिन्द्वीपे इति तै० ।
§ कुर्युः इति तै० अधिकः पाठः D पुस्तके तु ।

२ प्रपाठके ३ अनुवाकः । १६६

णो वि॒द्वान् सक॑लं भ॒द्रम॑श्नुते॒ स वा॑दि॒त्यो ब्रह्म॑ति⁽४⁾ ⁽५⁾ब्रह्मौ॑व॒ सन् ब्रह्माप्ये॑ति॒ य ए॒वं वेद॑⁽५⁾ ॥ २ ॥


अथ तृतीयोऽनुवाकः ।

⁽१⁾यद्दे॑वा दे॒वहेल॑नं॒ देवासश्च॑कृ॒मा व॒यं । आ॒दि-

तथा 'ध्यायन्', प्रदक्षिणञ्च 'कुर्व्वन्', वर्त्तते स पुमान् 'सकलं', 'भद्रं' 'अश्नुते' श्रेयः प्राप्नोति ॥

वेदनं प्रशंसति । ⁽५⁾"ब्रह्मौव सन् ॰ य एवं वेद"⁽५⁾ इति । 'यः' पुमान्, आदित्यो ब्रह्मेति 'वेद', स पुमान् पूर्वमजानानोऽपि स्वयं वस्तुतः 'ब्रह्मौव सन्', प्राप्तादेदनादज्ञानापगमे सति स्वानुभवेनापि 'ब्रह्म', आप्नोति ॥

इति सायनाचार्य्यविरचिते* माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥


अथ तृतीयोऽनुवाकः ।

द्वितीये सन्ध्यावन्दनमुक्तं । तृतीयादिषु चतुर्ष्वनुवाकेषु पापक्षयार्थं कुष्माण्डहोमाङ्गभूता मन्त्रा उच्यन्ते । तत्र तृतीयानुवाकगतासु ऋक्षु प्रथमामाह । ⁽१⁾"यद्देवा देव ॰ मामित"⁽१⁾

* सायनीये इति तै० पाठः

२०० तैत्तिरीये आरण्यके

त्यास्तस्मा॒न् मा मु॑ञ्चत॒र्तस्य॑र्तेन॒ मामि॑त^(१) । ^(२)दे॒वा जी॒- वन॑काम्या॒ यद्वाचाऽनृ॑तमु॒दिम॑ । तस्मा॑न्न इ॒ह मुं॑ञ्चत विश्वे॑ देवाः स॒जोषा॑सः^(२) । ^(३)ऋ॒तेन॑ द्यावापृथि- वी ऋ॒तेन॒ त्वꣳ स॑रस्वती । ऋ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्


इति । ‘देवा सः’ देवनशीलाः, ‘आदित्याः’ अदितेः पुत्राः, हे ‘देवाः’, ‘देवहेडनं’ देवानां क्रोधकारणं, ‘यत्’ कर्म, ‘वय- ञ्चकृम’ । ‘तस्मात्’ अपराधात्, यूयं ‘मुञ्चतं’, अपि च ‘ऋतस्य’ यज्ञस्य, सम्बन्धिना ‘ऋतेन’ सत्येन होमेन, ‘मां’, यूयं* ‘इत’ प्राप्नुत ॥

  अथ द्वितीयामाह । ^(२)“देवा जीवनकाम्याः ० सजोषासः”^(१) इति । हे ‘देवाः’, वयं ‘जीवनकाम्याः’ जीवनमात्मन इच्छन्तः, ‘यदनृतं वाचा ऊदिम’ राजसेवादा तत्क्रियार्थं^(†) अनृतमुक्त- वन्तः, ‘सजोषासः’ परस्परमस्माभिश्च समानप्रीतियुक्ताः, हे ‘विश्वे देवाः’, ‘इह’ अस्मिन् कर्मणि, अनुष्ठिते सति, अस्मात् पापात् ‘नः’ अस्मान्, ‘मुञ्चत’ ॥

  अथ तृतीयामाह । ^(३)“ऋतेन द्यावापृथिवी ० अनृतमू- दिम”^(३) इति । हे ‘द्यावापृथिवी’, ‘ऋतेन’ सत्यवचनेन, ‘यत्’ पापं, प्राप्तं तथा हे ‘सरस्वति’, अनेन ‘यत्’ पापं, प्राप्तं ‘त्वं


* ययमपि तै० पाठः ।   † तत्क्रियार्थं इति तै० पाठः ।