तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 187, कुल 940 में से
संदर्भ में पढ़ें१८२ तैत्तिरीये आरण्यके
श्च॒क्रः स॑हस्रा॒श्वं । आस्था॒या या॑हि नो ब॒लिं(२) । (३)यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धनं॒ गावो॒ हस्ति॒हिर॑ण्य॒मश्वा॑न् ॥ १ ॥
अ॒स्याम सु॒मतौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॑तोऽन्नमुखीं वि॒राज॑म्(३) । (४)सु॒दर्श॑ने च॒ क्रौञ्चे॑ च । मै॒ना॒गे च॑ म॒-
तद्युक्ताधूर्यस्य रथस्य सोऽयं सहस्रबन्धुरः तादृशं, 'पुरुश्चक्रं' बहुचक्रोोपेतं, 'सहस्राश्वं' सहस्रसङ्ख्याकैरश्वैरुपेतं, । तस्य रथस्योपमानमुच्यते । 'त्वाष्ट्रीं मायां' यथा त्वष्ट्रा निर्मिता माया आश्चर्यकरी तद्वदाश्चर्यकरं ॥
अथ तृतीयामाह । (३)"यस्मै भूतानि ॰ विराजम्"(३) इति । 'यस्मै' कुबेराय, 'भूतानि' सर्वे प्राणिनः, 'बलिं' पूजां, 'आवहन्ति' सम्पादयन्ति । कीदृशं बलिं, धनादिरूपं, 'धनं' मणिमुक्तादिकं, हस्तिभिः सहितं हिरण्यं 'हस्तिहिरण्यं', 'यज्ञियस्य' बलिना पूजनीयस्य तस्य कुबेरस्य, 'सुमतौ' अनुग्रहबुद्धौ, 'अस्याम' अवस्थिता भूयास्म । कीदृशस्य कुबेरस्य, 'अन्नमुखीं' अन्नप्रधानां, 'विराजं' विविधं राजमानां, 'श्रियं' सम्पदं, 'बिभ्रतः' धारयतः ॥
अथ चतुर्थीमाह । (४)"सुदर्शने ॰ संहार्यं नगरं तव"(४) इति । सुदर्शनादिनामकास्त्रयः पर्वताः तस्मिश्चैकैकस्मिन् 'महागिरौ', यत् 'तव नगरं', तत् 'संहार्यं', तत् परित्यज्य