तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 199, कुल 940 में से
संदर्भ में पढ़ें| १८६ | तैत्तिरीये आरण्यके |
|---|
सु॑रा अमू॑ह्य॒ꣳस्ते न प्राजा॑न॒ꣳस्ते परा॑भवन्ते न स्वर्गं॑ लो॒कमा॑य॒न् प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्वर्गं॑ लो॒कमा॑य॒न्नप्र॑सृतेनासु॑रान् परा॑भावयन्⁽¹⁾ ⁽²⁾प्रसृ॑तो ह॒ वै य॑ज्ञोप॑वीतिनो य॒ज्ञोऽप्र॑सृतोऽनुप॑वीतिनो॒ यत्किञ्च॑ ब्रा-
तथैवाभिप्रेत्य यज्ञे* प्रवृत्ताः, तावुभौ 'यज्ञौ', 'प्रततौ' विस्तीर्णौ, 'आस्तां' । तदानीं तथाविधाः 'असुराः', 'सन्नह्य' कृतसन्नाहाः, 'महसैव' भुजबलमात्रेणैव 'आचरन्' यज्ञमारब्धवन्तः, 'ते', मौर्ख्यात् ब्रह्मचर्यादिनियमं नादृतवन्तः । 'देवाः', तु ब्रह्मचर्यात् समस्ततपसा† युक्ताः सन्तो यथाशास्त्रमनुष्ठितवन्तः । 'ते', मूर्खाः 'असुराः', 'अमुह्यन्' मौर्ख्यपारवश्येन मोहं प्राप्ताः, मूढाः सन्तः कर्त्तव्याकर्त्तव्यं किमपि 'न प्राजानन्' । ततो यथाशास्त्राननुष्ठानाभावात् स्वर्गं न प्राप्ताः । 'देवाः', तु 'प्रसृतेन', एव 'यज्ञेन', 'स्वर्गं', प्राप्ताः, 'अप्रसृतेन यज्ञेन', युक्तान् 'असुरान् पराभावयन्' ॥
अथ प्रसृताप्रसृतयोः स्वरूपं विभजते । (१)“प्रसृतो ह वै ० यजत एव तत्”(२) इति । यज्ञोपवीतयुक्तस्य यः अयं 'यज्ञः', सोऽयं गुणाधिक्यात्‡ 'प्रसृतः' प्रकर्षेण वृत्त इत्युच्यते । 'अनुपवीतिनः' यज्ञोपवीतरहितस्य, 'यज्ञः', गुणहीनत्वात्
* तथैवाभिप्रेत्य यज्ञे इति पाठस्तु तै० पुस्तके नास्ति ।
† ब्रह्मचर्यात्मना तपसा इति तै० पाठः ।
‡ गुणाधिक्यवशादिति तै० पाठः ।