तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 194, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके ३२ अनुवाकः । १८६
अहरहर्वा भैक्ष॒मश्नीयात् । औदुम्बरीभिः समि॒द्भिर॒ग्निं परि॑चरेत् । पुन॒र्मा मैत्विन्द्रि॒यमित्येतेनानु॑वाके॑न । उ॒द्धृत परिपूताभिर॒द्भिः कार्यं॑ कुर्वी॒त ॥ १ ॥ अ॒सञ्च॑यवान् । अग्नये॒ वायवे॒ सूर्या॑य । ब्रह्म॑णे प्र॒जाप॑तये । च॒न्द्रम॑से॒ नक्ष॑त्रेभ्यः । ऋ॒तुभ्यः सं॑वत्स॒राय॑ ।
पानं, क्षीरादिविषयं, भक्तमन्नं, तदुभयमपि प्रतिदिनं कालद्वये स्वीक्रियते । तस्माद् द्विरन्नो मनुष्येभ्यः उपह्रियते । प्रातश्च सायञ्चेत्याम्नातत्वात्, तथा प्रातर्भुक्तवतः सायं द्वितीयः कालः, परेद्युः प्रातःकालस्तृतीयः, तत्रैव सायं चतुर्थः कालः, मध्यवर्त्तिनौ द्वितीयतृतीयकालौ परित्यज्य तस्मिंश्चतुर्थकाले पानं भक्तं च यस्यासौ 'चतुर्थकालपानभक्तः', तथाविधो भवेत् । अथवा प्रतिदिनं भिक्षित्वा तदन्नं भुञ्जीत, सोऽयं पक्षोऽशक्तविषयः । उदुम्बरवृक्षजन्याभिः 'समिद्भिः', अग्निपरिचर्यां कुर्यात् । तस्मिन् समिदाधाने मन्त्राः 'पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन', उक्ताः । स चानुवाकः पूर्वमेव व्याख्यातः । आपः, नदीतडाकादिभ्यः पात्रेणोद्धृता वस्त्रेण शोधिताश्च, ताभिः पादप्रक्षालनाचमनादिकं कुर्यात्, न तु नद्यादौ, यत्कार्य्यः सञ्चयो भिक्षापात्रादन्यत्र भक्ष्यादिवस्तुसङ्ग्रहः, तद्युक्तो न भवेत् । प्रतिदिनमग्न्यादित्योरुक्ताभ्यो देवताभ्यो होमं कुर्यात् । व्रतहोममनियुक्तत्वात् स्वाहाकारोऽर्थलभ्यः । ततोऽग्नये स्वाहा वायवे स्वाहेत्यादयो मन्त्राः सम्पद्यन्ते । आदिश्यते वि-