भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 193, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 193

१८८ तैत्तिरीये आरण्यके

अ॒श्वान्, बलिः॑, भुवः॑, भ॒वेयुः॑, श्रितः॑, च॑, सप्त॒ च॑ ॥ अनु० ३१ ॥

अथ द्वात्रिंशोऽनुवाकः ।

(१)सं॑वत्सरमे॒तद्व्र॒तञ्च॑रेत् । द्वौ वा॒ मासौ॑(१) । (२)नि॒यमः समासे॑न(२) । (३)तस्मि॑न् नियमवि॒शेषाः॑ । त्रिषवणमुद॑कोपस्पृ॒शी । चतुर्थकालपान॑भक्तः स्यात् ।


इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके एकत्रिंशोऽनुवाकः ॥ ३१ ॥


अथ द्वात्रिंशोऽनुवाकः ।

अथारुणकेतुकचयनाङ्गव्रतं विधत्ते । (१)“संवत्सरं ० वा मासौ”(१) इति । यो ह्यारुणकेतुकमग्निं चेतुमिच्छति सोऽधि- कारसिद्ध्यर्थमादौ ‘संवत्सरं’, ‘वा’, मासद्वयं वा वक्ष्यमाणं ‘व्रतं’, अनुतिष्ठेत् ॥

व्रतशब्दार्थमाह । (२)“नियमः समासेन”(२) इति । योऽयं ‘नि- यमः’ स्वीकारः, तदेव व्रतं । एतच्च ‘समासेन’ सङ्क्षेपेण, दर्शितं ॥

अथ विस्तारं प्रतिज्ञापूर्वकं दर्शयति । (३)“तस्मिन् ० काण्ड ऋषयः”(३) इति । नियमो व्रतमित्येव सामान्यलक्षण- मुक्तं ‘तस्मिन्’ व्रते, अनुष्ठेयाः ‘नियमविशेषाः’, क्रमेणोच्यन्ते । सूयते सोमो अत्रेति सवनं, तत् त्रिविधं, प्रातर्मध्यन्दिनसायङ्का- लभेदात्, तस्मिन् सवनत्रये उदकमुपस्पृशेत्, स्नायादित्यर्थः ।