भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 189, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 189

१८४ तैत्तिरीये आरण्यके

तिष्ठे॑त॒^(६) । ^(७)क्षत्रं॒ क्षत्रं॑ वैश्रव॒णः । ब्राह्म॒णा वय॑ँ स्मः ।
नम॑स्ते अस्तु॒ मा मां॑ हिँ॒सीः । अ॒स्मात् प्र॒विश्यान्न॑म॒-
द्धीति॑^(७) । ^(८)अथ तम॒ग्निमाद॑धीत । य॒स्मिन्ने॒तत्कर्म॑
प्र॒युञ्जी॑त॒^(८) । ^(९)ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ ३ ॥


'अयं बलिः', मया दत्तः, सर्वप्राणिनामधिपतये तस्मै वैश्रव-
णाय 'नमः', अस्तु। इत्युक्तो बलिहरणमन्त्रः ॥

^(७)"क्षत्रं क्षत्रं ० प्रविश्यान्नमद्धीति"^(७) इति। अत्रैकः
क्षत्रशब्दः क्षतात् त्रायत इति व्युत्पत्त्या पालकत्वं ब्रूते, द्वि-
तीयः क्षत्रशब्दो जातिवाची, अयं 'वैश्रवणः', 'क्षत्रं क्षत्रं' पा-
लकः, क्षत्रियत्वजातियुक्तश्च, 'वयं' यजमानाः, ब्राह्मणजाति-
युक्तास्तेन पालनीयाः 'स्मः', अतः 'ते' वैश्रवणाय, 'नमः', 'अस्तु',
'मा मा हिंसीः' हिंसितं मा कुरुतः, यस्माद्वयं ब्राह्मणत्वेन
नमस्कर्तृत्वेन च त्वया पालनीयाः 'अस्मात्' कारणात्, अत्र
बलिस्थाने 'प्रविश्य', 'अन्नं' अस्माभिर्दत्तं बलिरूपं, 'अद्धि'
भक्षय। 'इति' असौ, उपस्थानमन्त्रः ॥

अग्निस्थापनं विधत्ते। ^(८)"अथ तमग्निमादधीत ० प्रयु-
ञ्जीत"^(८) इति। 'यस्मिन्' अग्नौ, वैश्रवणबल्याख्यं 'एतत् कर्म',
प्रयुज्यते। 'तमग्निं', पूर्वोक्तोपस्थानानन्तरं भूमौ स्थापयेत् ॥

स्थापनीयं मन्त्रं दर्शयति। ^(९)"तिरोधा भूः ० पत्त्ये सीदे-
ति"^(९) इति। हे अग्ने 'भूस्तिरोधा' भूर्लोकं स्वतेजसाच्छादय,

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 189, कुल 940 में से · BharatKosha