तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 206, कुल 940 में से
संदर्भ में पढ़ें२ प्रपाठके ३ अनुवाकः । २०१
किञ्चा॑नृ॒तमूदि॒म^{(३)}} । ^{(४)}इ॒न्द्रा॑ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मु॒ञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमा॒- रि॒म^{(४)}} । ^{(५)}स॒जातश॒ꣳसा॒दुत जा॑मिश॒ꣳसाज्ज्या॑यसः श॒ꣳसा॒दुत वा॒ कनी॑यसः । अना॑धृष्टं दे॒वकृ॑तं॒ यदेन॑स्त-
अनृतसमानर्तेन' द्यावापृथिव्यौ, चेत्येतौ यूयं 'कृतात्', तस्मात् 'एनसः', 'नः' अस्मान्, 'पाहि' यूयं पातेत्यर्थः । किञ्च 'यत्कि- ञ्चिदनृतं', 'ऊदिम' वयमुक्तवन्तः, तस्मादप्येनसः पात ॥ चतुर्थीमाह । ^{(४)}“इन्द्राग्नी मित्रावरुणौ ॰ यदन्यकृत- मारिम”^{(४)} इति । 'यत्' पापं, 'अन्यकृतं' अन्येन यज्ञव्यति- रिक्तेन निमित्तेन कृतं, 'आरिम' वयं प्राप्ताः, तस्मात् 'एनसः', 'ते' इन्द्रादयो बृहस्पत्यन्ताः,* देवाः, 'नः' अस्मान्, 'मुञ्चन्तु' ॥ अथ पञ्चमीमाह । ^{(५)}“सजातशꣳसादुतजामि ॰ मुमुग्धि” ^{(५)} इति । 'सजाताः' समानजन्मानो ज्ञातयः, समानवयस्काः सखायः वा, तैर्मयि कृतः 'शंसः' प्रशंसा स्तुतिः, 'उत' अथवा, 'जामयः' जाया भार्य्याः, ताभिर्मयि कृतः† 'शंसः' स्तुतिः, 'ज्यायान्' ज्येष्ठो भ्राता, तस्य 'शंसः' तेन मयि कृता स्तुतिः, 'उत वा' अथ वा, 'कनीयान्' कनिष्ठो भ्राता, तस्य शंसः
* बृहस्पतिपर्य्यन्ता इति तै० पाठः ।
† ताभिः कृत इति तै० पाठः ।
२ B