तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 217, कुल 940 में से
संदर्भ में पढ़ें२१२ तैत्तिरीये आरण्यके
नः॑ । आ॒रे बा॑धस्व दु॒च्छुना॑म्^(४) । ^(५)अग्ने॑ पवस्व स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॒द्रयिं मयि॒ पोष॑म्^(५) ॥ १ ॥ ^(६)अ॒ग्निर्ऋषिः॑ पव॑मानः पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यं^(६) । ^(७)अग्ने॑ जा॒तान् प्रणु॑दा नः स॒-
इति । हे ‘अग्ने’, ‘आयुंषि’ अस्मदीयजीवनानि, ‘पवसे’ यथा वर्द्धन्ते* तथा शोधयसे । ‘ऊर्जं’ क्षीरादिरसं, ‘इषं’ अन्नं, ‘च’, ‘नः’ अस्माकम्, ‘आसुव’ आभिमुख्येन प्रेरय, ‘दुच्छुनां’ उपद्रवं, ‘आरे’ दूरे नीत्वा, ‘बाधस्व’ विनाशय ॥
अथ पञ्चमीमाह । ^(५)“अग्ने पवस्व ० मयि पोषं”^(५)इति । हे ‘अग्ने’, शोभनमपः कर्म यस्यासौ ‘स्वपाः’, तादृशस्त्वं, ‘अस्मे’ अस्मदीयं, ‘वर्चः’ ब्रह्मवर्चसं, ‘सुवीर्यं’ शोभनसामर्थ्यञ्च, ‘पवस्व’ शोधय, वर्द्धयेत्यर्थः । धनं पुष्टिञ्च ‘मयि’, ‘दधत्’ स्थापय ॥
अथ षष्ठीमाह । ^(६)“अग्निर्ऋषिः ० महागयं”^(६) इति । यः ‘अग्निः’, ‘ऋषिः’ अतीन्द्रियज्ञानवान्, ‘पवमानः’ शोधनशीलः, निषादपञ्चमा वर्णाः, पञ्च जनाः, तेषु भवः ‘पाञ्चजन्यः’, ‘पुरोहितः’ सर्वकर्मसु पुरस्तान्निहितः, ‘तं’ एवंगुणमग्निं, ‘महागयं’ महागृहं, ‘ईमहे’ प्राप्नुमः ॥
अथ सप्तमीमाह । ^(७)“अग्ने जातान् ० स्यामचिवरूथ उद्ग्ने”
* वर्द्धन्ते इति तै० पाठः ।