तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 227, कुल 940 में से
संदर्भ में पढ़ें२२२ तैत्तिरीये आरण्यके
तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तं जरसः॑ प॒रस्ता॒द- च्छि॑न्नं॒ तन्तु॒मनु॒सञ्च॑रेम^(५) ॥ १ ॥ ^(६)ततं॒ तन्तु॒मन्वेके॑ अनु॒सञ्च॑रन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नवत् । अब॑न्धे॒के दद॑त॒ प्रय॑च्छाहा-
प्रार्थनां प्रकर्षेण निरूपयन् । 'विद्वान्' सर्वार्थसाधनाभिज्ञः, तस्य प्रजापतेः प्रसादेन 'जरसः परस्तात्' वयोहानेरूर्ध्वं, 'अच्छिन्नं' तन्तुच्छेदनरहितं पुत्रपौत्रादिसन्तानं, 'अनुसञ्च- रेम' अनुप्रविश्य सम्यग्टणनिर्मुक्तो विश्रम्भेण चरेम ॥
अथ षष्ठीमाह । ^(६)“ततं तन्तुमन्वेके ॰ स्वर्ग एषां”^(६) इति। 'एके' पुरुषाः केचित्, 'ततं' पुत्रपौत्रादिरूपेण विस्तीर्णं, 'तन्तुमनु' स्वकीयं सन्तानमनुप्रविश्य 'अनुसञ्चरन्ति' पुण्यलो- काननुक्रमेण प्राप्नुवन्ति । द्विविधो हि पितुर्विग्रहः पुत्ररूपः स्वात्मरूपश्चेति । तयोर्मध्ये पुत्ररूपेणेह लोके पुण्यं कुर्वन्नेवास्ते । पितृरूपेण लोकान्तरेषु सञ्चरति । एतदेवाभिप्रेत्य तैत्तिरी- योपनिषद्युक्तं । सोस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैतीति । अत आकारभेदेन तन्तुमनुप्रविश्येति पुण्यलोकाननुसञ्चरतीत्युभ- यमप्युपपद्यते । 'येषां' पुरुषाणां, 'पित्र्यं', ऋणं, 'आयनवद्दत्तं' आयनमागमः शास्त्रं तदस्यास्तीत्यायनवत् यथा शास्त्रं दत्त- मित्यर्थः । पित्र्यमित्येतत्, अन्ययोरपि द्वयोर्ऋणयोरुपलक्षणं