भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 228, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 228

२ प्रपाठके ६ अनुवाकः । २२३

तु॒ञ्चे॒च्छक्नु॒वाꣳ॑सः स्व॒र्ग ए॑षां(६) । ^{(७)}आ॒र॒भेथाम्- नुसꣳ॑रभेथाꣳ समा॒नं पन्था॑मवथो घृ॒तेन॑ । यद्वां॑ पू॒र्त्तं परि॑विष्टं यद॒ग्नौ तस्मै॑ गोपायेह जा॑यापती॒ सꣳ-

तत् ऋणत्रयं यैर्दत्तं तादृशाः केचिदनुसञ्चरन्तीति पूर्वत्रान्वयः । 'एके' अपरे केचित् पुरुषाः, 'अबन्धु' पुत्रपौत्रादिबन्धुरहिताः सन्तः, पित्र्यमृणमपाकर्तुमशक्ता अपि, 'ददतः' धनदायिन उत्तमर्णस्य, 'प्रयच्छात्' प्रयच्छन्ति, तद्धनं प्रत्यर्पयन्ति । ते पुरुषाः 'दातुं', 'शक्नुवांसः' शक्नुवन्तश्चेत्, 'एषां' पुरुषाणां, 'स स्वर्गः', भवति 'एव' । पुत्रोत्पत्तेर्देवाधीनत्वेऽपि* गृहीतं धनमवश्यं प्रत्यर्पणीयमेवेत्यर्थः ॥

अथ सप्तमीमाह । ^{(७)}"आरभेथामनुसङ् ० संरभेथां"^{(७)} इति । हे 'जायापती' कर्माधिकारिणौ, 'इह' जन्मनि, 'घृतेन', द्रव्येण, 'आरभेथां' कर्माम्भं कुरुतं, 'अनुसंरभेथां' परस्पर- मनुकूलौ सङ्गतौ कदाचिदप्यवियुक्तावेव† भवतं । तयोरुभयोः 'समानं' साधारणं, 'पन्थां' पुण्यलोकमार्गं, 'अवथः' रक्षतं । 'वां' युवयोः, 'यत् पूर्त्तं' पितृभ्यो दत्तमन्नादि, 'यदग्नौ', 'परि- विष्टं' परिप्रापितं हविः, 'तस्मै' तदविच्छेदेन यथा क्रियेते- त्यवमर्थं, 'संरभेथां' त्वरेथां, न तु तूष्णीमासाथां । तच्च


* पुत्रोत्पत्तिल्वेऽपीति तै० पाठः ।
† सन्तो परस्परमवियुक्तौ इति तै० पाठः ।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 228, कुल 940 में से · BharatKosha