भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 230, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 230

२ प्रपाठके ६ अनुवाकः। २२५

द्यान॑ः पि॒ता पि॒तृयाच्छम्भ॑वासि जा॒मि मि॒त्वा मा वि॑वित्सि लो॒कान्⁽९⁾। ⁽१०⁾यत्र॑ सु॒हार्द॑ः सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वा३॑ स्वायां॑। अश्लो॒णाङ्गैरह्रु॑ता स्वर्गे

अदितिः। यदिदं ‘अन्तरिक्षं’ तदस्माकं ‘भ्राता’ भ्रातृस्थानीयं, यत् ‘एनः’, अस्माभिः कृतं तत् ‘अभिशस्तः’ शत्रुस्थानीयं। येयं ‘द्यौः’, सेयं ‘नः’, ‘पिता’ पितृस्थानीया, यथा परमेश्वरेण सम्पादितः सर्वसाधारणोऽयं बन्धुवर्गः, तथा हे यजमान बन्धुवर्गसम्पादनार्थं त्वं ‘पित्र्यात्’ पितृत्वमिच्छन्, ‘शम्भवासि’ सुखं प्राप्नोषि, ऐहिकामुष्मिकसुखसिद्धये पुत्रानुत्पादयेत्यर्थः। ‘जामि मित्वा’ आलस्येन पुत्रोत्पत्तिरहित एव सन् मृत्वा ‘लोकान्’ ऋणत्रयरहितानां योग्यं लोकं, ‘माविवित्सि’ नैव लप्स्यसि॥

अथ दशमोमाह। (१०)“यत्र सुहार्दः ० पितरं च पुत्रं”(१०) इति। ‘यत्र’ यस्मिन् पुण्यलोके स्थिताः, ‘सुहार्दः’ शोभनहृदयोपेताः, ‘सुकृतः’ पुण्यकर्माणः, ‘स्वायान्तन्वां’ स्वकीये शरीरे, ‘रोगं’, ‘विहाय’ परित्यज्य, ‘मदन्ते’ हृष्यन्ति, ‘अश्लोणाङ्गैः’ श्लोणो रोगविशेषः तद्रहितैरङ्गैः युक्ताः, ‘अह्रुताः’ कौटिल्यरहिताः केनचिदप्यवञ्चिताः सर्वे वयं, ‘तत्र स्वर्गे’, स्थित्वा ‘पितरं पुत्रञ्च’, ‘पश्येम’, तादृशं जन्म भूयादित्यर्थः॥

२ E