तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 241, कुल 940 में से
संदर्भ में पढ़ें| २३६ | तैत्तिरीये आरण्यके |
|---|
माह॑र॒न्तेना॑यजन्त^(१)। ^(२)यदृचो॒ऽध्यगी॑षत॒ ताः पय॑ आ॒हुत॑यो दे॒वाना॑मभव॒न्यद्यजूं॑षि घृ॒ताहु॑तयो॒ यत्साम॑ानि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गिर॒सो मध्वा॑हुतयो॒ यद्ब्रा॑ह्म॒णानी॑तिहा॒सान् पु॑रा॒णानि॑ क॒ल्पान् गाथा॑ नारा-
मुनयः 'एतं' वक्ष्यमाणं, 'ब्रह्मयज्ञं', सर्वकामहेतुं 'अपश्यन्' दृष्ट्वा च, 'तं' यज्ञं, 'आहरन्' अनुष्ठितवन्तः । 'तेन' यज्ञेन, देवानपूजयन्त ॥
ब्रह्म वेदः तस्या*ध्ययनमेव सम्पादितं । न तु यज्ञत्वमिति †मतिं वारयितुं तचाङ्गतः सम्पादयति । ^(२)“यदृचोऽध्यगीषत ० सायुज्यमृषयोऽगच्छन्”^(२) इति । पादबद्धमन्त्राः 'ऋचः', 'ता अध्यगीषत' ये ते ऋषयोऽधीतवन्त इति यदस्ति ता अध्ययनक्रियाः, 'देवानां', क्षीरद्रव्याऽऽहुतयः 'अभवन्', तदाहुत्या या तुष्टिः सा तेषामृगध्ययनेन सम्पन्ना । एतदन्यत्रापि योज्यं‡ । अथर्वाङ्गिरोभिश्च दृष्टा मन्त्राः 'अथर्वाङ्गिरसः' । 'ब्राह्मणानि' कर्मचोदना, वायव्यꣳ श्वेतमालभेतेत्यादयः । 'इतिहासाः' महाभारतादयः§ । देवा सुराः संयत्ता आसन् इत्यादयः । आत्मा वा इदमेक एवाग्र आसीन्नैवेह किञ्चनाग्र
* ब्रह्मयज्ञस्या- इति तै० पाठः ।
† शङ्कानिवारयितुमिति तै० पाठः ।
‡ एवमुत्तरत्रापि योज्यमिति तै० पाठः ।
§ ब्रह्माख्यादिनियमा इति तै० पाठः ।