तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 249, कुल 940 में से
संदर्भ में पढ़ें| २४४ | तैत्तिरीय आरण्यके |
|---|
सोंनः स्वाध्या॒यमधी॑यी॒तापां वा ए॒ष ओष॑धीना॒ꣳ
रसो॒ यद्दर्भाः सर॑समे॒व ब्रह्म॑ कुरुते^{(३)} ^{(४)}दक्षि॑णोत्त॒रौ
पाणी॒ पादौ॑ कृ॒त्वा सप॑वित्रा॒वोमिति॑ प्रति॑पद्यत ए॒त-
अत्रोपक्रमे कञ्चिद्विशेषं विधत्ते । ^{(४)}“दक्षिणोत्तराँ • परममक्षरं”^{(४)} इति । दक्षिणः पाणिरुत्तरो ययोस्तौ ‘दक्षिणोत्तरौ’ वामं पाणिं दक्षिणजानुन ऊर्ध्वमुत्तानं कृत्वा तस्योपरि दक्षिणहस्तमवाञ्चं कुर्यात्, तादृशौ च* ‘पाणी’, पवित्रयुक्तौ कार्यौ†, तथा दक्षिणपादोऽपि वामपादस्योपरिस्थापनीयः । एवं कृत्वा ‘ॐमिति’ प्रणवोच्चारणेनोपक्रमं कुर्यात्, योऽयमोमित्येवं रूपो यजुर्मन्त्रः स ‘त्रयीं विद्यां’, ‘प्रति’ वेदत्रयस्य प्रतिनिधिरूपः अतएव प्रणवगतानामकारोकारमकारमात्राणां‡ । वेदत्रयरूपेणाध्ययनं§ आथर्वणिका आममन्ति, तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः, स ऋग्भि ऋग्वेदोऽथ द्वितीयान्तरिक्षं॥ स उकारः, स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः, स मकारः, स सामभिः सामवेदैरिति । किञ्च ‘एषा’ प्रणवरूपा, सर्वा ‘वाक्’, अपि । अतएव छन्दोगा आमनन्ति, तद्यथा शङ्कुना सर्वाणि पर्णानि
* तावुभौ चेति तै० पाठः ।
† ‘कृत्वा’, इति तै० पाठः ।
‡ प्रणवगताकारोकारमकारार्द्धमात्राणां इति तै० पाठः ।
§ रूपत्वेन ध्यानं इति तै० पाठः ।
॥ स ऋग्भिर्यद्यन्तरिक्षं इति तै० पाठः ।