भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 267, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 267
२६२तैत्तिरीये आरण्यके

व्यौ॒ यं यं॒ क्रतु॑मधी॒ते तेनं॑ तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्वा॒योरा॑-

प्रकर्षेण प्रतिदिनं ब्रह्मयज्ञरूपेण वचनं प्रवचनं । उभे एवोत्तमे पुरुषार्थसाधने सत्यादीनामत्रार्थसिद्धत्वात् । यो हि निरन्तरं स्वाध्यायं पठति तस्यानृतवदने कः प्रसङ्गः । तपोऽप्यत्रार्थसिद्धं निषिद्धविषयप्रवणानामिन्द्रियाणां* बलक्षयद्वारेणोद्धतत्वं वारयितुं कृच्छ्रचान्द्रायणादिना शरीरशोषरूपं तपः क्रियते । स्वाध्यायपरस्य तु विषयमात्रचिन्तैव नास्ति कुतो दुष्टविषयेषु प्रवृत्तिः । तच्चिन्तापूर्वकत्वं प्रवृत्तेर्भगवतोक्तं । ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यतीति । विषयध्याननिवृत्त्यर्थमेव चित्तवृत्तिनिरोधरूपं योगं वक्तुं कृत्स्नं योगशास्त्रं प्रवृत्तं । सा च खविषयध्याननिवृत्तिः स्वाध्यायनिरतस्याप्रयासेनेव सिद्धा । तत्र किमनेन योगशास्त्रेण कृच्छ्रचान्द्रायणादिना तपसा वा । अत एवाभिज्ञा आहुः । अर्के चेन्मधु† विन्देत किमर्थं पर्वतं व्रजेत् । दृष्टस्यार्थस्य संसिद्धौ‡ को विद्वान् यत्नमाचरेत् इति । एतत् सर्वमभिप्रेत्य मौद्गल्यस्तद्धि तपस्तद्धि तप इति प्रसिद्धवाचकेन हिशब्देन वीप्सया च स्वाध्यायप्रवचनयोरत्यादरं दर्शयति । न च स्वा-


* निषिद्धविषयद्रव्याणामिति तै० पाठः ।
† अत्र चेन्मधु इति तै० पाठः । ‡ संसिद्धेरिति तै० पाठः ।