तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 268, कुल 940 में से
संदर्भ में पढ़ें२ प्रपाठके १५ अनुवाकः। २६३
दि॒त्यस्य॑ सायुज्यं गच्छ॒ति तदे॒षाभ्यु॑क्ता^(७)। ^(८)ये अ॒र्वा- ङ्ङुत वा॑ पुरा॒णे वेदं॑ वि॒द्वांस॑म॒भितो॑ वद॒न्त्यादि॒त्यमे॒व ते प॑रि॒वद॑न्ति॒ सर्व्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च ह॒ꣳ॒स-
ध्यायपाठमात्रेण योगानुष्ठानाभावात्* न पुरुषार्थ इति शङ्क- नीयं । अयमध्येता अग्निष्टोमवाजपेयराजसूयाश्वमेधादीनां मध्ये 'यं यं' क्रतुभागं 'अधीते', तस्याध्येतुः पुरुषस्य 'तेन तेन' क्रतुना, 'इष्टं भवति', । त्रिविधो हि यागः । कायिको वाचिको मानसिकश्चेति, तत्राध्येतुर्वाचिकस्य निष्पत्तौ नास्त्येव विवादः । यद्यध्येतार्थमपि जानाति तदाध्ययनकाले तदनुस- न्धानात् मानसोऽपि निष्पद्यते । कायिकस्य नास्ति† मास्तु नाम द्रव्यार्जनरहितस्याधिकाराभावात् । यस्य त्वधिकारः कायिकमप्यसौ करोति इतरस्य तु वाचिकेनैव तत् फलं लभ्यते । तस्मादयमध्येताग्न्यादीनां सायुज्यं गच्छति । 'तत्' तस्मिन् वेदविदो माहात्म्ये, काचिदृक् 'अभ्युक्ता' ॥
तामेतामृचं दर्शयति । ^(८)“ये अर्वाङ्ङुत वा ० हꣳसमिति”^(८) इति । 'अर्वाङ्' अर्वाञ्चं, इदानींतनमनुष्यं अध्येतृरूपं, 'उत वा पुराणे' अथवा पुरातनं व्यासवशिष्ठादिरूपं, 'वेदं विद्वांसं' पाठादर्थाच्च वेदतत्त्वाभिज्ञं महात्मानं, 'ये' मूर्खाः, 'अभितो वदन्ति' तत्र तत्र निन्दन्ति, 'ते' मूर्खाः, 'सर्वे', अपि 'आदित्य-
* यच्चानुष्ठानाभावात् इति तै० पाठः ।
† कायिकस्येन्नास्ति इति तै० पाठः ।