भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 287, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 287

२८२ तैत्तिरीये आरण्यके

मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा॑ध्व॒र्युः॑।^{(१)}॥ ^{(२)}वाच॑- स्पते॒ विधे॑ नाम॒न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॑


ज्ञातुः* पुरा प्रैषवक्ता मैत्रावरुणो विवक्षितः । यदा प्रोक्षणादिष्वनुज्ञायां पृष्टायां ब्रह्मा समीपे स्थिते ॐ प्रोक्षेत्यादिना तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्यादयः शरीरगतपदार्थाः स्रुगादिरूपा इति वाक्यार्थः । अस्मिन् मन्त्रे स्रुगादीनां होमसाधनानां दशानामभिहितत्वादयं मन्त्रो दशहोतेत्युच्यते । सोऽयं मन्त्रस्य पूर्वभागः, तस्य चावयवाः पृथगिष्टका मन्त्राः, तत्र चित्तिस्स्रुक्‍तया देवतयाऽङ्गिरस्वध्रुवासीदेति। एवमुपधानप्रकारो द्रष्टव्यः । एता दशेष्टका उपधेयाः ॥

मन्त्रस्य योऽयमुत्तरो भागो ग्रहाख्यः तेन ग्रहेष्टकामुपदधाति । तथा च ब्राह्मणमाम्नातं । यथावकाशं ग्रहानिति । तञ्च ग्रहभागमाह । ^{(१)}“वाचस्पते ॰ नृम्णन्धात् स्वाहा”^{(२)} इति । हे ‘वाचस्पते’ वाचः पालक, हे ‘विधे’ जगद्विधातः, हे ‘नामन्’ सर्वस्य वशीकर्त्तः, ‘ते’ तव, ‘नाम’, ‘विधेम’ । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रसिद्धं कुर्मः, यद्वा नमनं प्रह्वीभावं सम्पादयामः । ‘त्वं’, अपि ‘अस्माकं’, ‘नाम विधेः’, देवेषु मध्ये यजमानोऽयं यथाशास्त्रं कृतवानिति प्रसिद्धं कुरु ।


* अनुवचनकर्तुर्हान इति तै० पाठः ।