तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 304, कुल 940 में से
संदर्भ में पढ़ें३ प्रपाठके १० अनुवाकः । २६६
अथ दशमोऽनुवाकः ।
^(१)देव॑स्य त्वा सवि॒तुः प्रस॑वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्यां॒ प्रति॑गृह्णामि । राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृ॒तत्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ १ ॥ कामः॑ प्रतिग्रही॒ता । काम॒ꣳ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षा ते॑ काम॒ दक्षि॑-
अथ दशमोऽनुवाकः ।
अथ प्रतिग्रहमन्त्रा उच्यन्ते । तैश्च प्रतिग्रहैरिष्टकोपधानं चातुर्होत्रीयब्राह्मणे एवमाम्नातं । यथावकाशं प्रतिगृह्णन्_ लोकं पृणाञ्चेति । तत्र प्रथममाह । ^(१)“देवस्य ॰ वैश्वानराय रथं”^(१) इति । हे प्रतिगृह्यमाणद्रव्य ‘सवितुः देवस्य’, प्रेरणे सति अश्विसम्बन्धिभ्यां ‘बाहुभ्यां’, पूषसम्बन्धिभ्यां ‘हस्ताभ्यां’, त्वां ‘प्रतिगृह्णामि’ । हे ‘दक्षिणे देवि’, ‘वरुणो राजा’, हिरण्यरूपाम् त्वां ‘अग्नये’, प्रापयतु । ‘तेन’ अग्निप्रापणेन, प्रतिग्रहदोषाभावात् । अहं ‘अमृतत्वं’ नरकाभावरूपं, प्राप्नुयां, इयञ्च दक्षिणादात्रे ‘वयः अस्तु’ पक्षिरूपिणी भूत्वा दातारं स्वर्गे