भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 305, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 305

३०० तैत्तिरीये आरण्यके

णा । उ॒त्ता॒नस्त्वा॑ऽङ्गीर॒सः प्रति॑गृह्णातु । सोमा॑य॒ वास॑: । रु॒द्राय॒ गां । वरु॑णा॒याश्व॑म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ २ ॥ मन॑वे तल्पं॑ । त्वष्ट्रे॒ऽजां॑ । पू॒ष्णोऽविं॑ । निर्ऋ॑त्या अश्वतरग- र्द॒भौ । हि॒मव॑ते हस्तिनं॑ । ग॒न्ध॒र्वा॒प्स॒राभ्य॑: सगलङ्क॒र- णे । विश्वे॑भ्यो दे॒वेभ्यो॑ धा॒न्यं॑ । वा॒चेऽन्नं॑ । ब्रह्म॑ण ओद- नं । स॒मु॒द्रायाप॑: ॥ ३ ॥

नयतीत्यर्थः । 'प्रतिग्रहीत्रे' 'मह्यं', 'मय': सुखं, 'अस्तु' । 'इदं' द्रव्यं, प्रजापतिः प्रजापतये दत्तवान् अन्तर्यामिरूपेण दातृप्रतिग्रहीत्रोः प्रेरकत्वात् । तथा 'कामः', 'कामाय', दत्त- वान् । यथा प्रजापतिः अदृष्टप्रेरकः तथा कामस्यदृष्टप्रेरक- त्वात् तस्मात् 'कामः', एव 'दाता', 'प्रतिग्रहीता', च स्वर्गा- दिफलविषयः कामो दाता, ऐहिकसुखविषयः कामः प्रति- ग्रहीता । ततो हे दक्षिणे समुद्रसमं 'कामं' प्रविश 'कामेन', निमित्तेन त्वां 'प्रतिगृह्णामि' । हे महृदयवर्त्तिन्'काम' तत् 'एतत्' द्रव्यं, तुभ्यं भवति । हे 'काम', 'ते' त्वत्प्रीतये, एव 'एषा' 'दक्षिणा,' प्रवृत्ता, अङ्गिरोगोत्रे समुत्पन्न उत्ता- नाख्यो महर्षिः 'त्वां प्रतिगृह्णातु' । अथ वस्त्रादिद्रव्यविषयान् षोडशमन्त्रानाह । एतेषु सर्वेषु मन्त्रेषु देवि दक्षिणे इत्यन्तः पूर्वानुषङ्गः । तेनामृतत्वादिकमित्युत्तरानुषङ्गः* ॥

* अमृतत्वादिकमुक्तवाक्यानुषङ्गः इति तै० पाठः ।