भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 336, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 336

३ प्रपाठके १२ अनुवाकः । ३३१

स्मा॑द्वि॒राड॑जायत । वि॒राजे॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः^(५) ॥ २ ॥ ^(६)यत् पुरु॑षेण ह॒विषा॑ । दे॒वा य॒ज्ञमत॑न्वत । व॒सन्तो॒

‘पुरुषः’ तद्देहाभिमानी कश्चित् पुमान्, ‘अजायत’ । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयया मायया विराड्- देहं ब्रह्माण्डं सृष्ट्वा तत्र जीवः* अभवत् । एतच्चाथर्वणिका उत्तरतापनीये समामनन्ति† । स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यव- हरन्नास्ते माययैवेति । ‘स जातः’ विराट् पुरुषः ‘अत्य- रिच्यत’ अतिरिक्तोऽभूत्, विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्या- दिरूपोऽभूत् । ‘पश्चात्’ देवादिजीवभावादूर्ध्वं, ‘भूमिं’ सस- र्जेति शेषः । ‘अथो’ भूमिसृष्टेरनन्तरं, तेषां जीवानां ‘पुरः’ ‘ससर्ज’, आपूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥

अथ षष्ठमाह । ^((६))“यत् पुरुषेण० ग्रीष्म इध्मः शरद्धविः” (६) इति । पूर्वोक्तक्रमेण देवशरीरेषूत्पन्नेषु ते ‘देवाः’, उत्तर- सृष्टिसिद्ध्यर्थं तत्साधनत्वेन ‘यज्ञमतन्वत’ कञ्चिद्यज्ञमन्वतिष्ठन् ।


* तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोभवत् इति F पुस्तकपाठः। तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देव- ताऽभवत् इति तै० पाठः। तत्र जीवरूपेण ब्रह्माण्डाभिमानी देव- तात्मा जीवोभवत् इति G चिह्नित-पुस्तकस्य पाठः।
† साधु समामनन्तीति F, G चिह्नित पुस्तकद्वयपाठः।