भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 346, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 346

३ प्रपाठके १३ अनुवाकः । ३४१

विश्व॑माजा॒नमग्रे॑।⁽१⁾ । ⁽२⁾वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म्। आ॒दि॒त्यव॑र्णं तम॑सः प॒रस्ता॑त्। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॑ विद्य॒तेऽय॑नाय⁽२⁾। ⁽३⁾प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः। अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ १ ॥
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म्। मरी॑चीनां पद॒-


दीश्वरः, ‘एति’ प्रवर्तते, ‘पुरुषस्य’ विराडाख्यस्य, सम्बन्धि ‘तत्’ विश्वं, प्रसिद्धं* देवमनुष्यादिरूपं सर्वं, जगद् ‘अग्रे’ सृष्ट्यादौ, ‘आजानं’ सर्वत उत्पन्नं ॥

अथ द्वितीयामाह । ⁽१⁾“वेदाहमेतं • विद्यतेयनाय”⁽२⁾ इति । पूर्ववत् व्याख्येयं ॥

अथ तृतीयामाह । ⁽३⁾“प्रजापतिश्चरति• पदमिच्छन्ति वेधसः”⁽२⁾ इति । ब्रह्माण्डरूपे ‘गर्भे’, ‘अन्तः’ मध्ये, ‘प्रजापतिः’, विग्रहवान् भूत्वा ‘चरति’। स च वास्तवेन रूपेण सत्यं ज्ञानमनन्तं ब्रह्मेत्येतादृशत्वात् ‘अजायमानः,’ एव तथापि मायिकेन रूपेण ‘बहुधा’ स्थावरजङ्गमादिबहुप्रकारः, विशेषेण ‘जायते’। ‘तस्य’ प्रजापतेः, ‘योनिं’ जगत्कारणरूपं वास्तवं स्वरूपं, ‘धीराः’ धैर्यवन्तो योगेन निरुद्धेन्द्रियाः महात्मानः, ‘जानन्ति’, ‘वेध-


* तद्विखण्डप्रसिद्धमिति G चिह्नितपुस्तकपाठः ।