तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 405, कुल 940 में से
संदर्भ में पढ़ें४०० तैत्तिरीये आरण्यके
(११)सूर्य॑स्य॒ हर॑सा॒ आय(११) । (१२)म॒खोऽसि॑(१२) ॥ ५ ॥ प॒ते॒, शिर॑:, ऋ॒तावरीं॑कृ॒न्ध्यास॒म॒द्य म॒खस्य॒ शिर॑:, शिर॑:, शिरो॑ऽसि॒, नव॑ च ॥ अनु० २ ॥
यतः *परिमाणाभावरूपं पक्षान्तरं विधत्ते । “अपरि- मितं करोति । अपरिमितस्यावरुद्ध्यै” इति । (५ प्र० । ३ अ० । १४ म०) । परिमाणनियत्यभावेनापि †निमित्तलबहुलं फलं सम्पद्यते ॥
यदुक्तं सूत्रकारेण उपबिलं गात्नाङ्करोतीति तदत्र विध- त्ते । “परिग्रीवं करोति धृत्यै” इति । (५ प्र० । ३ अ० । १५ म०) । ग्रीवायाः परितः ‘परिग्रीवं’ तत्र वलयाकारो धारणायोपयु- ज्यते ॥
कल्पः । (११)“सूर्य्यस्य हरसा आय” (११) इति । इत्युत्तरतः सिकतासु प्रतिष्ठाप्येति । हे महावीर ‘सूर्य्यस्य हरसा’ तेजसा आतपेन, ‘आय’ कृष्णाङ्गो भव ॥
मन्त्रस्य स्पष्टार्थतां दर्शयति । “सूर्य्यस्य हरसा आयेत्याह । यथा यजुरेवैतत्” इति । (५ प्र० । ३ अ० । १६ म०) ॥
कल्पः । “मखोऽसीत्यनुवीक्षते” इति । हे महावीर त्वं यज्ञसाधनत्वात् ‘मखः’ यज्ञस्वरूपः, ‘असि’ ॥
* नियतपरिमाणरूपाभावरूपं तै० पाठः ।
† निमित्तेन D चिह्नितपुस्तकपाठः ।