भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 406, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 406

४ प्रपाठके ३ अनुवाकः । ४०१

अथ तृतीयोऽनुवाकः ।

इयती॒दैवी॑रि॒न्द्रस्यौजौ॒स्यमृजा॒ अस्यायु॑र्धेहि प्रा॒णं प॒ञ्च॑ । ^{(१)}वृष्णो॒ अश्व॑स्य निष्प॒द॑सि । वरु॑णस्त्वा धृतव्र॑त्


इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥


अथ तृतीयोऽनुवाकः ।

द्वितीये महावीरनिर्माणमुक्तं तृतीये तत्संस्कारा उच्यन्ते । कल्पः । वृष्णो अश्वस्येति सकृद्गार्हपत्ये प्रदीव्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति । वृष्णो अश्वस्य निष्पद- सीति । पाठस्तु । ^{(१)}“वृष्णो अश्वस्य ० मित्रावरुणयोर्ध्रुवेण धर्मणा”^{(१)} इति । हे महावीर, त्वं ‘वृष्णः’ सेचनसमर्थस्य ‘अश्वस्य’ सम्बन्धि ‘निष्पत्’ निःसृतं यः शकृत् तद्योगेन तद्रूपो- ऽसि । तादृशं त्वां ‘धृतव्रतः’ स्वीकृतनियमो वरुणो देव, ‘आधूपयतु’ सर्वतो धूपितं करोतु । ‘मित्रावरुणयोः’ सम्बन्धो ध्रुवो धर्मास्थितः* पुष्पविशेषः । तद्रूपेण द्रव्येण ‘धूपयतु’ इत्यन्वयः ॥

* धर्मास्थिरः तै० पाठः ।

3 D 2