तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 410, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ३ अनुवाकः । ४०५
(६)अप॑च्यमानः पृथि॒व्यां॑ । आशा॒ दिश॒ आपृ॑ण । उत्ति॑ष्ठ बृह॒न्भव॑ ॥ २ ॥ ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वं(६) । (७)सूर्य॑स्य त्वा॒ चक्षु॑षा-
कल्पः । उद्दास्यापच्यमानः पृथिव्यामाशादिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्येति । पाठस्तु । (६)“अपच्यमानः पृथिव्यां ॰ ऊर्ध्वस्तिष्ठ ध्रुवस्त्वं”(६) इति । हे महावीर त्वं ‘पृथिव्यां’ भूमौ ‘अपच्यमानः’ असि भङ्गमप्राप्नुवन्, ‘आशा दिशः’ प्राच्याद्या मुख्यदिशः, आग्नेय्याद्या मुख्यदिशः, ‘आपृण’ सर्वतः पूरय, सर्वत्र प्रसिद्धो भव । ‘उत्तिष्ठ’ उत्सहस्व, ‘बृहन् भव’ स्वव्यापारेण प्रख्यातो भव, इह सिकतासूर्द्ध्वमुखः स्थिरः ‘त्वं’ तिष्ठ ॥
दिश आपृणेत्यस्य तात्पर्य्यं दर्शयति । “अपच्यमानः पृथिव्यामाशा दिश आपृणेत्याह॥६॥ तस्मादग्निः सर्वा दिशोऽनुविभाति” (५ प्र०।३ अ०।२२ म०) इति । यस्मात् महावीरस्य सर्वदिक्षूर्त्तिः* प्रार्थ्यते ‘तस्मात्’ महावीरेणाभिन्नः ‘अग्निः’ स्वतेजसा ‘सर्वा दिशः’ प्रकाशयति ॥
ऊर्ध्वस्तिष्ठेत्यस्य तात्पर्य्यं दर्शयति । “उत्तिष्ठ बृहन् भवोर्द्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्त्यै” इति (५ प्र०।३ अ०।२३ म०) ॥
कल्पः । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्यन्वीक्षत इति । पा-
* सर्व्वदिक्पूर्त्तिः तै० पाठः ।