तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 421, कुल 940 में से
संदर्भ में पढ़ें४१६ तैत्तिरीये आरण्यके
स्वाहा॑ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा॑(^{(३)}) । (^{(४)})दे॒वस्त्वा॑ सवि॒तामध्वा॑नक्तु(^{(४)}) ॥ १ ॥
वेदस्य मौञ्जले सति ऊर्त्तूपेण वेदेन, ‘यज्ञस्य’ ‘शिरः’, सम्मृद्धं करोति ॥
कल्पः । प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति । पाठस्तु । (^{(३)})“प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा ॰ बलाय स्वाहा”(^{(३)}) इति । प्राणादिदेवेभ्यः स्वाहुतमिदमस्तु । ‘वाचे’ इत्यनेन सरस्वती विशिष्यते, शब्दात्मिकाया वाग्देवताया इत्यर्थः। ‘दक्षः’ उत्साहः, ‘क्रतुः’ सङ्कल्पः, ‘ओजः’ अष्टमोधातुः, तत्कार्यं ‘बलं’ ॥
एतैर्मन्त्रैः साध्यान् होमान् विधत्ते । “प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति” इति । (५ प्र०।४ अ०।१२ म०) ।
तत्र सप्तसङ्ख्यापक्षं विधत्ते । “सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन् दधाति” इति । (५ प्र०।४ अ०।१३ म०) । शिरोगतसप्तच्छिद्रवर्त्तिप्राणानां सप्तत्वात् सङ्ख्यया तत्प्राप्तिः ॥
कल्पः । देवस्त्वा सवितामध्वानक्तिरिति स्रुवेणोपर्याहवनीये महावीरमङ्क्तेति । (४ मन्त्रः) । हे महावीर ‘त्वां’ ‘सविता’ ‘देवः’, ‘मध्वा’ मधुरेण घृतेन, ‘अनक्तु’ अक्तं करोतु ॥