तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 423, कुल 940 में से
संदर्भ में पढ़ें४१८ तैत्तिरीये आरण्यके
ज्योति॑रसि तपो॒ऽसि॑^(६) । ^{(७)}स॒ꣳ सी॑दस्व म॒हाꣳ अ॑सि ।
तेषामग्रैरुत्तरेषां मूलानि शोचिषे लेति, तेषां मूलैर्दक्षिणेषाम् मूलानि ज्योतिषे लेति, तेषां मूलैरुत्तरेषामग्राणि तपसे लेति ॥
प्रदीप्तमुञ्जस्थापने कञ्चिद्विशेषं विधत्ते । “अप्रतिशीर्णाग्रं भवति । एतद् बर्हिर्ह्येषः” इति ॥ ५ ॥ (५ प्र० । ४ अ० । १७ म०) । दीप्तमुञ्जानां ‘अग्रं’, ‘प्रतिशीर्णं’ इतस्ततो विप्रसृतं यथा न ‘भवति’ तथा समूहत्यैव स्थापयेत् । यस्मादयं प्रवर्ग्यः, ‘एतत्’ ‘बर्हिः’ मुञ्जरूपबर्हिर्युक्तः, तस्मादेचास्तरणबर्हिष इवाप्रतिशीर्णाग्रं* युक्तं ॥
कल्पः । तान् व्यत्यस्तानुपरि रुक्मे निदधाति । ^{(६)}“अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि”^{(६)} इति । हे दक्षिणमुञ्जाग्रभाग त्वं ‘अर्चिः’ ज्वालारूपः ‘असि’, हे उत्तरमुञ्जमूलभाग त्वं ‘शोचिः’ शुचिरूपः ‘असि’, हे दक्षिणमुञ्जमूलभाग त्वं ‘ज्योतिः’ प्रकाशरूपः ‘असि’, हे उत्तरमुञ्जाग्रभाग त्वं ‘तपः’ सन्तापरूपः ‘असि’ ॥
मन्त्रतात्पर्यं दर्शयति । “अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन् ब्रह्मवर्चसं दधाति” इति । (५ प्र० । ४ अ० । १८ म०) । शरीरकान्तिः श्रुताध्ययनसम्पत्तिश्चेत्युभयविधप्रकाशस्तेन मन्त्रेण यजमानं सम्पद्यते ॥
* शीर्णाग्रत्वं इति तै० पु० पाठः।