तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 425, कुल 940 में से
संदर्भ में पढ़ें४२० तैत्तिरीये आरण्यके
(९)अ॒ना॒धृ॒ष्या पु॒रस्ता॑त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः।
पु॒त्रव॑ती दक्षि॑णतः । इन्द्र॑स्याधि॑पत्ये । प्र॒जां मे॑ दाः।
सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒णं मे॑ दाः।
आ॒श्रुति॑रुत्त॒रतः॑ ॥ ३ ॥
मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्रं॑ मे दाः । वि॒धृति॑-
रु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः क्ष॒त्रं मे॑
अञ्जनाभावे ह्यतितापेन महावीरस्य भङ्गोऽपि प्रसज्येत । स- धर्मो, विप्रैरक्तो महावीरः 'ऋतधन्' ऋतं यज्ञं निष्पादयन्, 'अग्निं' एतं 'असादीत्' आसन्नवान् प्राप्तवान् । तत्र दृष्टान्तः, 'पितुः', 'उपस्थि' उपान्तिके, 'प्रेष्ठः' 'पुत्रः' 'न', प्रियतमः पुत्र इति ॥
कल्पः । अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्ग- मिति । पाठस्तु । $^{(९)}$“अनाधृष्या पुरस्तात् ० मनो मे धाः”$^{(९)}$ इति । 'पुरस्तात्' पूर्व्वस्यां दिशि, वर्त्तमाने हे देवते 'अनाधृष्या' केनाप्यतिरस्कार्य्या, त्वं 'अग्नेराधिपत्ये' वर्त्तमाना सती 'आयु- र्मे दाः' मे देहि एवं दिगन्तरेषु योज्यं । 'पुत्रवती' पुत्र- युक्ता देवता, 'सुषदा' सुखेनोपविष्टा, 'आश्रुतिः' सर्व्वत्र प्रख्याता, 'विधृतिः' सर्व्वस्य विधारयित्री, 'ब्रह्म' मन्त्रजातं, 'क्षत्रं' बलं, तत् सर्व्वशः देहि । 'तेजः' शरीरकान्तिः, 'वर्चः'