भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 427, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 427

४२२ तैत्तिरीये आरण्यके

मनौ॑ मे धाः^(९)। ^(०१)मनो॑रश्वा॑सि॒ भूरि॑पुत्रा। विश्वा॑भ्यो॒ मा॒नाष्ट्राभ्यः॑ पाहि ॥ ४ ॥

सूप॒सदा॑ मे भूया॒ मा मा॑हिꣳसीः^(१०) ।

रूपमहावीरसकाशादेव, 'यजमानः' सर्वा अपि 'आशिषः' प्राप्नोति, एतेषां च यजुषां प्रधानकर्मणः पुरा* पठनीयत्वात् अयं यज्ञः पुरस्तादाशीः ॥

कास्ता मन्त्रोक्ता आशिष इत्याशङ्क्य दिग्भेदेन व्यवस्थिता-स्ता दर्शयति । "आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृ॑तिमुपरिष्टात् । प्राणानेवास्मै समीचोदधाति" इति । (५ प्र०।४ अ०।२२ म०) । 'विधृति' शब्देन ब्रह्मक्षत्रादयः सर्व्वेऽपि विधार्य्यत्वात्† उपलक्ष्यन्ते । अनेन मन्त्रपाठेनायं यजमानः, 'अस्मै' स्वदेहार्थं, 'प्राणान्' 'समीचः' अनुकूलानवस्थापयति ॥

कल्पः । मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमन्त्र-यतीति । पाठस्तु । ^(१०)"मनोरश्वासि ० माहिꣳसीः"^(१०) इति । हे भूमे त्वं 'मनोरश्वा', मनुष्यजातेर्व्यापिका सती, 'भूरिपुत्रा' बहुभिः पुत्रैर्युक्तासि, ये प्राणिनो भूमेरुत्पन्नाः ते सर्व्वेऽपि भूमेः पुत्राः तादृशी त्वं 'विश्वाभ्यः', 'नाष्ट्राभ्यः' विनाशकारणेभ्यः सर्व्वेभ्यः, मां 'पाहि', 'मे' मम 'सूपसदा' सुखेन सेवितुं योग्या 'भूयाः', 'मां' 'माहिꣳसीः' हिंसितं माकुरु ॥


* पुरस्तात् इति तै० पु० पाठः ।
† विधेयत्वात् इति D चिह्नित पु० पाठः ।