तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 428, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ५ अनुवाकः । ४२३
(११)तपो॑ष्वग्ने॒ अन्त॑रा॒ँ अ॒मित्रां॑न् । तपा॒ शंस॑मर॒रुषः॒ पर॑स्य । तपो॑ वसो चिकिता॒नो अचि॑त्तान् । वि
अनेन मन्त्रेण साध्यं भूमिसंस्पर्शं विधत्ते । “ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनुव्यास्थापयन्ति ॥ ७ ॥ मनोरश्वासि भूरिपुत्रेतीमामभिमृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रतितिष्ठत्यनुन्मादाय” इति । (५ प्र० । ४ अ० । २३ म०) । लोके ‘यं’ पुरुषं, मनुष्याः ‘दिशः’ ‘व्यास्थापयन्ति’ वक्रोर्दिग्शोऽनुक्रमेण, विविधं सञ्चारयन्ति, ‘एषः’ सञ्चारी पुरुषः, ‘दिशः’ ‘अनु’लक्ष्य ‘उन्मदितोः’ ‘ईश्वरः’ उन्मत्तो भवितुं समर्थो भवति दिग्भ्रमं प्राप्नोतीत्यर्थः । तस्यानेन मन्त्रेण भूमिसंस्पर्शे सति उन्मादो न भवति ॥
मा हिꣳसीरित्यस्य तात्पर्यं दर्शयति । “सूपसदा मे भूया मा मा हिꣳसीरित्याहाहिꣳसायै” इति । (५ प्र० । ४ अ० । २४ म०) ॥
कल्पः । तपोष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्येति* । पाठस्तु । (११)“तपोष्वग्ने अन्तराँ • अजरा अयासः”(११) इति । हे ‘अग्ने’ ‘अन्तरान्’ देवयजनमध्ये गूढत्वेन वर्त्तमानान्, ‘अमित्रान्’ रक्षोरूपान् शत्रून्, ‘सुतपः’ सुष्ठु तपस्तप्तान् कुरु । ‘अरुषः’
* अभ्युपोहेति इति तै० पुस्तकपाठः ।
३ G