तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 429, कुल 940 में से
संदर्भ में पढ़ें४२४ तैत्तिरीये आरण्यके
ते॑ तिष्ठन्ताम॒जरा॑ अया॒सः॑। (११) । (१२)चित॑: स्थ॒ परि॑ चित॑:।
अररुर्वै नामासुर आसीदिति श्रुतस्याररुनामकस्य, 'परस्य' शत्रोः, 'शꣳसं' संस्तवं, 'तप' विनाशय । हे 'वसो' वासहेतो वह्ने, 'चिकित्वान्' अभिज्ञः, त्वं 'अचित्तान' अस्मासु चित्तरहितान् विरोधिनः, 'तप' 'ते' सर्व्वेऽप्यमित्राः, 'वि' 'तिष्ठन्तां' परस्परमेलनं परित्यज्य विविधं यथा भवति तथा तिष्ठन्तु । ततो वयं 'अजराः' वयोहानिरहिताः, 'अयासः' आयासरहिताश्च भूयास्मेति शेषः ॥
कल्पः । चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूहेति । स्वाहा मरुद्भिः परिश्रयस्वेति मन्त्रशेषः । (१२ मन्त्रः) । हे अङ्गाराः यूयं गार्हपत्यात् पृथक्कृताः सन्तः 'चितः' महावीरसमीपे सञ्चिताः, 'परि चितः स्थ' परितः समूहरूपा भवथ । हे महावीर 'मरुद्भिः' अङ्गाररूपैर्देवैः, 'स्वाहा' 'परिश्रयस्व' सुष्ठु परितो व्याप्तो भव । स्वाहाशब्दो निपातत्वादनेकार्थवाची इति ॥
मन्त्रे पूर्व्वभागस्य तात्पर्य्यं दर्शयति । “चितः स्थ परि चित इत्याह । अपचितिमेवास्मिन् दधाति” इति । (५ प्र० । ४ अ० । २५ म०) । अङ्गारेषु परितः सेवकवत्स्थितेषु मध्ये स्थितस्य महावीरस्य राज्ञ इव पूजा सम्पद्यते ॥
उत्तरभागे मरुच्छब्देन विवक्षितमर्थं दर्शयति । “शिरो वा एतद्यज्ञस्य । यत् प्रवर्ग्यः । असौ खलु वा आदित्यः प्रव-