भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 430, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 430

४ प्रपाठके ५ अनुवाकः। ४२५

स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व॑^{(१२)}। ^{(१३)}मा अ॑सि। प्र॒मा अ॑सि। प्र॒ति॒मा अ॑सि॥ ५॥

र्ग्यः। तस्य मरुतो रश्मयः॥८॥ स्वाहा मरुद्भिः परिश्रयस्वे- त्याह। अमुमेवादित्यग्ं रश्मिभिः पर्यूूहति। तस्मादसावा- दित्योऽमुष्मिँल्लोके रश्मिभिः पर्यूूढः। तस्माद्राजा विशा पर्यूूढः। तस्मात् ग्रामणीः सजातैः पर्यूूढः” इति। (५ प्र०। ४ अ०।२६ म०)। यज्ञशिरोरूपः ‘प्रवर्ग्यः’ आदित्यस्थानीयः, देवतात्वेन भाविता अङ्गारा रश्मिस्थानीयाः अतो महावीर- स्याङ्गारैः पर्यूूहणेनात्र ‘आदित्यं’ एव ‘रश्मिभिः’ परितो व्या- पयति, यस्मादेवं ‘तस्मात्’ स्वर्गे ‘लोके’ अपि ‘आदित्यः’ ‘रश्मि- भिः’ व्याप्तो दृश्यते। तथा भूलोकेऽपि महावीरवन्मुख्यः ‘राजा’ अङ्गारवत् उपसर्जनीभूतया प्रजया व्याप्तो भवति, एकस्मिन् ग्रामे ‘ग्रामणीः’ मुख्यः पुरुषः, ‘सजातैः’ सहोत्पन्नैरुपसर्जनैः पुरुषैः, परितो व्याप्तो दृश्यते॥

कल्पः। वैकङ्कतैः परिधिभिः परिधत्ते मा असीति प्रा- ञ्चावध्वर्युर्निदधातीति प्रमा असोत्युदञ्चौ प्रति प्रस्थाता एव- मवशिष्टानां पूर्व्वपूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रति- प्रस्थाताध्वर्युरेव दक्षिणतस्त्रयादग्रं निदधात्यन्तरिक्षस्यान्तर्द्धि- रसीति। पाठस्तु। ^{(१३)}“मा असि ० अन्तरिक्षस्यान्तर्द्धि- रसि”^{(१९)} इति। हे परिधे प्रागग्रत्वेन दक्षिणदिग्वर्त्ती उत्तरदिग्वर्त्ती वा त्वं ‘मा असि’ महावीरस्थानं मातुमि- 3 G 2