भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 436, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 436

४ प्रपाठके ५ अनुवाकः । ४३१

कल्पः । तैरेनं त्रिरूर्द्धमुपवीजयतीति मधु मध्विति तृतीये मधुशब्दो मन्त्रशेषः । (१६ मन्त्रः) । हे धवित्रत्रय 'मधु' समी- चीनं ज्वालोत्पादनं यथा भवति तथा वायुं कुर्व्विति शेषः ॥

एतन्मन्त्रसाध्यां क्रियां विधत्ते । “मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति” इति । (५ प्र० ।- ४ अ० । ३४ म०) । समीचीनवायुरूपत्वात् प्राणस्य मधुत्वं ॥

यदुक्तं सूत्रकारेण । तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमा- ग्नीध्रायाग्नीध्रप्रथमास्तिः प्रदक्षिणमूर्द्धं धून्वन्तः परियन्तीति । तदिदं विधत्ते । “त्रिः परियन्ति । त्रिवृद्धिप्राणः” इति । (५ प्र० । ४ अ० । ३५ म०) । प्राणापानव्यानाख्यवृत्तिभेदात् प्राणस्य त्रैगुण्यं प्रदक्षिणत्रयेण सिध्यति ॥

तमेव विधिमनूद्य पुनः प्रशंसति । “त्रिः परियन्ति । व्या- वृद्धियज्ञः ॥ ११ ॥ अथो रक्षसामपहत्यै” इति । (५ प्र० । ४- अ० । ३६ म०) । सवनत्रयानुष्ठानेन यज्ञस्यावृत्तिन्त्रयं* । अपि च प्रदक्षिणत्रयेण रक्षांस्यपहन्यन्ते ॥

यदुक्तं सूत्रकारेण । अध्वर्य्युप्रथमा अनभिधून्वन्तः त्रिः परियन्तीति । तदिदं विधत्ते । “त्रिः पुनः परियन्ति । षट्- सम्पद्यन्ते । षड् वा ऋतवः । ऋतुष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ३७ म०) । पूर्वोक्ताः प्रदक्षिणावृत्तयस्तिस्र एताश्च विपरीतावृत्तयस्तिस्र इत्येवं षट्सम्पत्तिः ॥

चतुर्थावृत्तिं निषेधति । “यो वै घर्मस्य प्रियान्तन्व॒मा-


* त्रयत्वं इति तै० पु० पाठः ।

3 H