भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 437, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 437

४३२ तैत्तिरीये आरण्यके

क्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियांस्तनुवमा- क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताᳪ ह वा अस्योग्र- देवो राजनिराचक्राम ॥ १९ ॥ ततो वै स दुश्चर्माभवत् । तस्मात् त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपी- थाय । प्राणा वै धवित्राणि” इति । (५ प्र० । ४ अ० । ३८ म०) । ‘घर्मस्य’ महावीरस्य, प्रियशरीराक्रमणे त्वग्दोषः स्यात्, ‘यः’ पुमान्, अपेक्षितं प्रदक्षिणत्रयं कृत्वा ततश्चतुर्थं प्रदक्षिणमनपे- क्षितमपि कुर्य्यात् । ‘सः’ एव प्रियशरीरं ‘आक्रामति’ इति । त्वग्दोषं ‘सः’ प्राप्नुयात् । न चैतद्वार्त्तामात्रं किन्तु कश्चित् ‘रा- जनि’ नामकः पुरुषः, ‘उग्रदेवः’ । उग्राणामृत्विजां शास्त्रा- र्थमुल्लङ्घयतां स्वामी सन् कदाचिदेतां प्रियतनूं ‘आचक्राम’ । ‘ततः’ अपराधात्, कुष्ठरोगवानभूत् । अतः स्वदेहरक्षार्थं चतुर्थावृत्तिं न कुर्य्यात् । धवित्राणि प्रशंसति प्राणा इति ॥

यदुक्तं सूत्रकारेण । तमभिमुखाः पर्युपविशन्ते पुरस्ताद- ध्वर्य्युः दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽव्यतिषङ्गमूर्द्ध्वं धुन्वन्त इति । तत्र धवित्रदण्डानां यः परस्परसंश्लेषाभावः तमिमं विधत्ते । “अव्यतिषङ्गं धुन्वन्ति । प्राणानामव्यतिषङ्गाय क्लृप्त्यै” इति । (५ प्र० । ४ अ० । ३९ म०) । प्राणादिवृत्तीनां साङ्कर्य्य- परिहारेण स्वव्यापारसामर्थ्यार्थो धवित्राणामयमव्यतिषङ्गः ॥

तमभिमुखाः पर्युपविशन्तीति यदुक्तं तद्विधत्ते । “विनिषद्य धुन्वन्ति । दिक्ष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ४० म०) । पुरस्तादध्वर्य्युरित्याद्यभिधानात् ‘दिक्षु’ प्रतिष्ठा ॥