भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 438, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 438

४ प्रपाठके ६ अनुवाकः । ४३३

अथ षष्ठोऽनुवाकः ।

^(१)दश॒ प्राची॑र्द॒श भा॑सि दक्षि॒णा । दश॑ प्र॒तीची॑र्द॒श


ऊर्द्धाभिमुखत्वेन वायुत्पादनं विधत्ते । “उर्द्धं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै” इति । (५ प्र० । ४ अ० । ४१ म०) । स्वर्गस्योर्द्धवर्त्तित्वादूर्द्धधूननेन तत्प्राप्तिः ॥

सर्व्वासु दिक्षु धूननं विधत्ते । “सर्व्वतो धून्वन्ति । तस्मादयग्ँ सर्व्वतः पवते” इति ॥ १३ ॥ (५ प्र० । ४ अ० । ४२ म०) । यस्मान् महावीरस्य सर्व्वासु दिक्षु वायुमुत्पादयन्ति तस्माल्लोकेऽप्ययं वायुः सर्व्वासु दिक्षु सञ्चरति ॥ दधाति, इवान्वाह, यज्ञस्य, आह, एष, उपरिष्टादाशीरन्यः, व्याख्यापयन्ति, रश्मयः, भवन्ति, धन्वेत्याह, यज्ञः, चक्राम, समष्ट्यै, देँ च ॥ इति पञ्चमप्रपाठके ४ अनुवाकः ॥ ४ ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥

अथ षष्ठोऽनुवाकः ।

पञ्चमे महावीरस्थापनमुक्तं । षष्ठे तस्याभिमन्त्रणमुच्यते । कल्पः । अध्वर्य्युर्महावीरमभिमन्त्रयते । दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेनेति। तत्रादावेकामृचमाह । “(१)दश प्राचीर्दश

३ H २