तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 442, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ६ अनुवाकः। ४३७
ष्ये॒षायु॑ष्मा॒ꣳस्तेज॑स्वी ब्रह्म॑वर्च॒सी भू॑यास॑म्⁽५⁾। ⁽६⁾रुग॑सि। रुचं॑ मयि॑ धेहि॥ मयि॒ रुक्⁽६⁾। ⁽७⁾दश॑ पु॒रस्ता॑द्रोचसे। दश॑ दक्षि॒णा। दश॑ प्र॒त्यङ्। दशोद॑ङ्। दशो॒र्ध्वा भा॑सि
युक्तः, 'तेजस्वी' महत्या कान्त्या युक्तः, 'ब्रह्मवर्चसी' श्रुताध्य- यनसम्पन्नः, तत्प्रसादात् 'अहं' अपि 'मनुष्येषु' मध्ये, रुचि- मत्त्वादिगुणयुक्तो 'भूयासं'॥
अत्रापि द्विशब्दैवकाराभ्यां मन्त्रभागौ पूर्व्वद्व्याचष्टे। “स- म्राट् घर्म रुचितस्त्वं देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चस्यसोत्याह। रुचितो ह्येष देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी। रुचतोऽहं मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह। रुचित एवैष मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भवति” इति। (५ प्र०। ५ अनु०। ५ म०)॥
अथ यजुरन्तरमाह। ⁽६⁾“रुगसि ० मयि रुक्”⁽६⁾ इति। हे महावीर 'रुगसि' त्वमेव दीप्तिरूपः असि। अतः, 'मयि' 'रुचं' दीप्तिं, 'धेहि' सम्पादय, तदनुग्रहात् 'रुग्' दीप्तिः, 'मयि' तिष्ठत्विति शेषः॥
धेहीत्यस्य लोट्प्रत्ययस्याशिरर्थत्वं दर्शयति। “रुगसि रुचं मयि धेहि मयि रुग्गित्याह। आशिषमेवैतामाशास्ते” इति। (५ प्र०। ५ अनु०। ६ म०)॥
अथ यजुरन्तरमाह। ⁽७⁾“दश पुरस्ताद्रोचसे ० रोचितो घर्मो रुचीय”⁽७⁾ इति। अनुवाकादौ दश प्राचीरिति योऽर्थ