भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 464, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 464

४ प्रपाठके ७ अनुवाकः । ४५६

आवृत्तिविशेषेऽपि* प्रथमशब्दो मुख्यः तदा-†वृत्तिविशेषतया यज्ञशब्दो लाक्षणिकः, तत्पक्षे क्रतौ मुख्यो यज्ञशब्दः प्रयोगे‡ लाक्षणिकः स्यादितिचेत् । बाढं । तथाप्यसञ्जातविरोधिनि लाक्षणिकत्वकल्पनात् कामं§मुत्तरपदे तत्कल्पनं तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यस्य निषेधः । न तु सप्तमसंख्यायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः तत्रायं निषेधः पर्य्यवस्यति । विधिश्च तत्र श्रूयते । अग्निष्टोमे प्रवृणक्तीति । एवं तर्ह्यधिकारि॥भेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा च श्रूयते । कामन्तु योऽनूचानः स्यात् तस्य प्रवृञ्ज्यादिति तस्मादनूचानव्यतिरिक्तप्रथमप्रयोगएवायं निषेधः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥


* आवृत्तिर्द्वितीयेऽपि इति D चिह्नितपु० पाठः ।
† तथा इति तै० पु० पाठः ।
‡ प्रयोगे इति तै० पु० पाठः ।
§ वरं इति तै० पु० पाठः ।
॥ अधिकार इति D चिह्नितपु० पाठः ।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 464, कुल 940 में से · BharatKosha