भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 511, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 511

५०६ तैत्तिरीये आरण्यके

$^{(९)}$चतु॑:स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑$^{(९)}$। $^{(१०)}$सदौ॒ विश्वा॑युः॒ शर्म॑


एतन्मन्त्रसाध्यं परिषेचनं विधत्ते । “बल्बूरसि शुंयुधाया इति त्रिः परिषिञ्चन् पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचं शमयति ।” इति । (५ प्र० । ६ अ० । १५ म०) । आहवनीयादिरूपेणाग्नेस्त्रिगुणत्वात् त्रिवारपरिषेचनेन सर्वस्याग्नेः शोकः शाम्यति ॥

कल्पः । निधाय कुम्भं शं च वक्षि परि च वक्षीति त्रिः परिषिञ्चन् प्रतिपर्येतीति । (८ मन्त्रः) । हे उत्तरवेदि, ‘शं च वक्षि’ सुखमपि वहसि, ‘परि च वक्षि’ दुःखपरिहारमपि वहसि ॥

एतन्मन्त्रसाध्यां प्रदक्षिणावृत्तिं विधत्ते । “त्रिः पुनः पर्येति । षट् सम्पद्यन्ते । षड् वा ऋतवः । ऋतुभिरेवास्य शुचं शमयति ।” इति । (५ प्र० । ६ अ० । १६ म०) । त्रीणि प्रदक्षिणानि त्रीण्यप्रदक्षिणानीति ‘षट्’-सम्पत्तिः ॥

कल्पः । चतुःस्रक्तिर्नाभिरृतस्येत्युत्तरवेदिमभिमृशेति । (९ मन्त्रः) । ‘चतुःस्रक्तिः’ कोणचतुष्टयोपेतोत्तरवेदिः, इयं ‘ऋतस्य’ यज्ञस्य, नाभिस्थानीया । यद्वा ‘ऋतस्य’ सत्यभूतायाः भूमेर्नाभिस्थानीया ॥

मन्त्रस्य भूमिसन्निभपरत्वं दर्शयति । “चतुःस्रक्तिर्नाभिर्ऋतस्येत्याह ॥ ६ ॥ इयं वा ऋतं । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह ।” इति । (५ प्र० । ६ अ० । १७ म०) । प्रवर्ग्यहोमाधारत्वादुत्तरवेदिः ‘प्रवर्ग्यः’, इत्युच्यते ॥