भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 514, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 514

४ प्रपाठके ११ अनुवाकः । ५०६

म॒हमायु॑षा । सं प्रा॒णेन॑ । सं वर्चे॑सा । सं पय॑सा । सं गौपत्ये॑न । सꣳ रायस्पोषे॑ण^(१४) ॥ ५ ॥


असि, हे प्रवर्ग्य, तद्रूपस्त्वं ‘असि’, ‘तस्य ते’ तादृशस्य गन्धर्व्व- रूपस्य तव, ‘हविर्द्धानं’, ‘यदत्’ हविर्द्धानाख्यमण्डपादिसदृशं* उत्तरवेद्यां प्राक् शिरस्त्वेनावस्थितस्य तवाधोभागवर्त्तित्वात्, योऽयं ‘अग्निः’, उत्तरवेदिं गतः, सोऽयं ‘अध्यक्षः’ तव स्वामी, योऽयं ‘रुद्रः’ क्रूरो देवः, सोऽयं ‘अधिपतिः’ अनिष्टनिवार- णेनाधिकपालकः ॥

मन्त्राक्षरैः प्रवर्ग्यमहिम्नः स्पष्टप्रतिभानं दर्शयति। “रन्ति- र्नामासि दिव्यो गन्धर्व्व इत्याह। रूपमेवास्यैतन्महिमानम्† रन्तिं बन्धुतां व्याचष्टे।” इति। (५ प्र०।६ अ०।२२म०)। ‘रन्तिः’ बन्धुत्वं, रमणहेतुत्वात्, मन्त्रस्य यत् स्वरूपमस्ति रन्त्यादि- शब्दोपेतं एतदेव प्रवर्ग्यस्य बन्धुत्वलक्षणं महिमानं प्रका- शयति ॥

द्वितीयं मन्त्रमाह। ^(१४)“समहमायुषा ॰ सꣳ रायस्पो- षेण”^(१४) इति । ‘अहं’, अस्य प्रवर्ग्यस्य प्रसादादायूरादिना रायस्पोषान्तेन फलषट्केन सङ्गतो भूयासं ॥

मन्त्रस्याशीरर्थतां दर्शयति । “समहमायुषा सं प्राणेने-


* मण्डपं पादसदृशमिति तै० पुस्तकपाठः
† खस्य महिमानमिति तै० पुस्तकपाठः।