भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 536, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 536

४ प्रपाठके ११ अनुवाकः । ५२३

दिश्युदासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवै॒नं वैश्वानरेणाभिप्रवर्त्तयति*” । इति । (५ प्र० । १० अ० । ८ म०) । यजमानः ‘यं’† पुरुषं, ‘द्विष्यात्’, ‘सः’ द्वेष्यः, यस्यां दिशि तिष्ठति, ‘तस्यां दिशि’, प्रवर्ग्यं ‘उद्वासयेत्’ । प्रवर्ग्यस्य वैश्वानराग्निरूपत्वात् ‘एनं’ द्वेष्यं, ‘अभि’लक्ष्य वैश्वानराग्निनेव ‘प्रवर्त्तयति’ । तेनाग्निना तमभितो दहतीत्यर्थः‡ ॥

तत्रैव कञ्चिद्विशेषं विधत्ते । “औदुम्बर्याᳵ शाखायामुद्वासयेत् । ऊर्ग्व्वा उदुम्बरः । अन्नं प्राणः । शूग् घर्मः ॥ ५ ॥ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामोत्याह । शुचैवास्य प्राणमपि दहति । ता जगार्त्तिमार्च्छति” । इति । (५ प्र० । १० अ० । ६ म०) । उदम्बरवृक्षस्य येयं शाखा तस्यां प्रवर्ग्यं ‘उद्वासयेत्’ । उदुम्बरस्यान्नरूपत्वात्, अन्नस्य प्राणस्थितिहेतुत्वात्, घर्मस्य च सन्तापरूपत्वात्, तदनुसारेणोद्वासनकाले इदमित्यादिमन्त्रं पठेत् । ‘अमुष्यायणस्य’ देवदत्तपुत्रस्य, ‘अमुष्य’ यज्ञदत्तस्य, ‘प्राणं’ ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘शुचा’ सन्तापेन, ‘अपि’, ‘दहामि’ सर्व्वतो दग्धं करोमि । एतन्मन्त्रपाठेन ‘अस्य’ द्वेष्यस्य, ‘प्राणं’, सन्तापेन ‘दहति’, एव । तदानीमेवासौ ‘आर्त्तिं’, प्राप्नोति ॥

देशान्तरं विधत्ते । “यत्र दर्भा उपदीकसन्तताः स्युः । त-


* वैश्वानरेणातिप्रवर्त्तयति इति F, H, चिह्नितपुस्तकद्वयपाठः ।
† वक्ष्यमाणोऽयमिति D, F, H चिह्नितपुस्तकत्रयपाठः ।
‡ हरतीत्यर्थः इति D चिह्नितपुस्तकपाठः ।