तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 579, कुल 940 में से
संदर्भ में पढ़ें५६६ तैत्तिरीये आरण्यके
दक्षं॑ मे अन्य॒ आ वा॑तु परा॒ऽन्यो वा॑तु॒ यद्रपः॑॥ (६) ।
^(७)यद॒दो वा॑त ते गृ॒हेऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो
देहि जीवसे॒ ततो॑ नो धेहि भेष॒जं । ततो॑ नो मह॒
आवह॑^(७) ^(८)वात॒ आ वा॑तु भेष॒जꣳ शं॒भूम॑यो॒भूर्नो॑
हृ॒दे । प्र ण॒ आयूं॑षि तारिषत्^(८) । ^(९)इन्द्र॑स्य गृ॒हो-
युक्ते देशे, 'वातः' सञ्चरतः । शान्तो वायुरेकः, तीव्रोऽपरः, तयोर्मध्ये 'अन्यः' एकः शान्तः, 'मे' मम, 'दक्षं आवातु' सुखं सम्पादयतु । 'अन्यः' तीव्रो वायुः, 'यद्रपः' मम यत्पापमस्ति, तत् 'परा वातु' विनाशयतु ॥
अथ सप्तमं मन्त्रमाह । ^(७)"यददो वात ० ततो नो मह आवह"^(७) इति । हे 'वात,' 'ते गृहे,' 'यददः' यः असौ, 'अमृतस्य निधिः,' 'हितः' स्थापितः, 'ततः' निधेः सकाशात्, 'नः' अस्माकं, 'जीवसे' जीवनाय, 'देहि' कियदप्यमृतं प्रयच्छ । 'ततः' अमृतात्, 'नः' अस्माकं, 'भेषजं देहि' औषधं सम्पादय । 'ततः' तस्मात्, 'नः' अस्माकं, 'मह आवह' तेजः सम्पादय ।
अथाष्टमं मन्त्रमाह । ^(८)"वात आवातु भेषजꣳ ० प्र ण आयूंषि तारिषत्"^(८) इति । अयं 'वातः' 'भेषजं,' यथा भवति तथा, 'आवातु' । 'नः' अस्माकं, 'हृदे' मनसे, 'शम्भूः' अनिष्टशान्तिं भावयन्, 'मयोभूः' सुखं च भावयन्, वर्त्ततां । 'नः' अस्माकं, 'आयूंषि' चिरकालजीवनानि, 'प्रतारिषत्' प्रकर्षेण वर्धयतु ॥