भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 584, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 584

४ प्रपाठके ४२ अनुवाकः। ५७१

उप॑सेदुरिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः। अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान्(१८)॥ ३॥ (१८)शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑। शंयो- र॒भिस्र॑वन्तु नः(१९)। (२०)ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्ती॒-

प्रिरुपमत्तिः। कीदृशा ऋषयः, 'वयः' पक्षिमूर्त्तिधारिणः, अतएव 'सुपर्णाः' शोभनपक्षोपेताः, 'प्रियमेधाः' अधीतस्य श्रुतस्य धारणशक्तिर्मेधाः तस्यां प्रीतियुक्ताः। 'नाधमानाः' किञ्चित्कार्यं याचमानाः। स एव याञ्ज्ञाप्रकारः स्पष्टीक्रियते। हे इन्द्र 'ध्वान्तं' अज्ञानलक्षणमन्धकारं, 'अपोर्णुहि' अपसारय। 'चक्षुः' ज्ञानलक्षणं दृष्टिं, 'पूर्धि' पूरय। 'निधयेव' शृङ्खलयेव, अज्ञानेन, 'बद्धान्', 'अस्मान्', 'मुमुग्धि' तस्मादज्ञानात् बन्धनान्मोचय॥

अथैकोनविंशं मन्त्रमाह। (१८)“शन्नो देवीरभिष्टय ० शंयोरभिस्रवन्तु नः”(१९) इति। 'आपः', देव्यः, 'नः' अस्माकं, 'अभिष्टये पीतये' अभीष्टाय पानाय, 'शं' सुखहेतवः, 'भवन्तु'। किञ्च 'नः' अस्माकं, 'शं' सुखं, यथा भवति तथा, 'शंयोः' दुःखवियोगः, यथा भवति तथा, 'अभिस्रवन्तु' सर्वतः प्रवहन्तु ॥

अथ विंशं मन्त्रमाह। (२०)“ईशाना वार्याणां ० याचामि भेषजं”(२०) इति। अहं 'अपः', देवीः प्रति, 'भेषजं' पापविनाश-