तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 584, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके ४२ अनुवाकः। ५७१
उप॑सेदुरिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः। अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान्(१८)॥ ३॥ (१८)शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑। शंयो- र॒भिस्र॑वन्तु नः(१९)। (२०)ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्ती॒-
प्रिरुपमत्तिः। कीदृशा ऋषयः, 'वयः' पक्षिमूर्त्तिधारिणः, अतएव 'सुपर्णाः' शोभनपक्षोपेताः, 'प्रियमेधाः' अधीतस्य श्रुतस्य धारणशक्तिर्मेधाः तस्यां प्रीतियुक्ताः। 'नाधमानाः' किञ्चित्कार्यं याचमानाः। स एव याञ्ज्ञाप्रकारः स्पष्टीक्रियते। हे इन्द्र 'ध्वान्तं' अज्ञानलक्षणमन्धकारं, 'अपोर्णुहि' अपसारय। 'चक्षुः' ज्ञानलक्षणं दृष्टिं, 'पूर्धि' पूरय। 'निधयेव' शृङ्खलयेव, अज्ञानेन, 'बद्धान्', 'अस्मान्', 'मुमुग्धि' तस्मादज्ञानात् बन्धनान्मोचय॥
अथैकोनविंशं मन्त्रमाह। (१८)“शन्नो देवीरभिष्टय ० शंयोरभिस्रवन्तु नः”(१९) इति। 'आपः', देव्यः, 'नः' अस्माकं, 'अभिष्टये पीतये' अभीष्टाय पानाय, 'शं' सुखहेतवः, 'भवन्तु'। किञ्च 'नः' अस्माकं, 'शं' सुखं, यथा भवति तथा, 'शंयोः' दुःखवियोगः, यथा भवति तथा, 'अभिस्रवन्तु' सर्वतः प्रवहन्तु ॥
अथ विंशं मन्त्रमाह। (२०)“ईशाना वार्याणां ० याचामि भेषजं”(२०) इति। अहं 'अपः', देवीः प्रति, 'भेषजं' पापविनाश-