तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 62, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके ८ अनुवाकः ॥ ५७
(१३)ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुर्म॑ग्निं च॒ सम्प्र॑ति⁽१३⁾॥ (१४)पृच्छा॑मि त्वा॑ पाप॒कृतः॑ । यत्र॒ यात॑यते य॒मः । त्व- नस्तद्ब्रह्मन् प्रब्रू॑हि । य॒दि वेत्थाऽस॑तो गृ॒हान्⁽१४⁾ ॥ ५ ॥ (१५)क॒श्यपा॑दुदि॒ताः सूय्याः॑ । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।
मृत्युं प्राप्ताः । ये तु श्रुतिस्मृतिमार्गवर्त्तिनः ते सर्वेऽपि 'आभोगाः' सम्पूर्णाः सर्वभोगयुक्ताः सन्तः, तादृशं स्थानं प्राप्नुवन्ति । 'यत्र' यस्मिन् स्वर्गे, पूर्वे 'पुण्यकृतो जनाः' देवाः, वर्त्तन्ते तत्र गच्छन्ति । एतत्तु लोकञ्च पुण्यपापानामित्यस्योत्तरं ॥
अथ चतुर्थीमाह । (१३)“ततो ० सम्प्रति”(१३) इति । 'ततः' पूर्वोक्तेभ्योऽत्यन्तपापकृद्भ्योऽत्यन्तपुण्यकृद्भ्यश्च, अन्ये ये पुरुषाः मिश्राणि पुण्यपापान्याचरन्ति ते 'सम्प्रति' मनुष्यजन्मनि, मध्य- माधमचतुर्थमृत्युञ्च तदा प्राप्य प्रतीकारैः समादधते । एतदपि पुण्यपापलोकप्रश्नस्योत्तरं ॥
कल्पः । पृच्छामि त्वा पापकृतस्ततस्रो निरयवतीरिति । तत्र प्रथमामाह । (१४)“पृच्छामि ० गृहान्”(१) इति । हे 'ब्रह्मन्', 'त्वां' इन्द्रं, 'पृच्छामि' । किं पृच्छसीति तदुच्यते । 'पापकृतः', प्राणिनो 'यमः', 'यत्र' स्थाने, 'यातयते' क्लेशयति, तत्र स्थानं 'नः' अस्मभ्यं, त्वं 'प्रब्रूहि' । 'यदि', 'असत:' पापिनो जन्तोः, 'गृहान्' पातकानि, 'वेत्थ', तर्हि शुश्रूषवे मह्यं ब्रूहि ॥
अथ द्वितीयामाह । (१५)“कश्यपादुदिताः ० वासवैः”(१५)