तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 652, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके ११ अनुवाकः। १३६
अथैकादशोऽनुवाकः।
^(१)प्र॒जाप॑तिः सम्भ्रिय॒माण॑:। स॒म्राट् सम्भृ॑तः घर्म॑: प्र॒वृक्त॑:। म॒हा॒वी॒र उद्धा॑सितः। अ॒सौ खलु॒ वावैष आ॑दि॒त्यः। यत्प्र॑व॒र्ग्य॑:। स ए॒तानि॒ नामा॑न्यकुरुत^(१)। ^(२)य ए॒वं वेद॑। वि॒दुरे॑नं॒ नाम्ना॑^(२)। ^(३)ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ १ ॥
यो वै वसी॑याꣳसं यथाना॒ममु॑प॒चर॑ति। पुण्या॑र्त्तिं॒ वै स तस्मै॑ कामयते। पुण्या॑र्तिमस्मै कामयन्ते। य ए॒वं वेद॑। तस्मा॑दे॒वं वि॒द्वान्। घर्म॒ इति॑ दिवाऽऽच॑क्षीत। स॒म्राडि॑ति॒ नक्त॑म्। ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ॑। ए॒ते अ॑स्य प्रि॒ये नाम॑नी। प्रि॒ययै॒वैनं॑ त॒नुवा॑ ॥ २ ॥
प्रि॒येण॒ नाम्ना॒ समर्ध॑यति। की॒र्त्तिर॑स्य पू॒र्वा ग॑च्छति ज॒नता॑माय॒तः^(३)। ^(४)गाय॒त्री दे॒वेभ्योऽपा॑क्रामत्। तां दे॒वाः प्र॑व॒र्ग्येणै॒वान्व॑व्यभवन्। प्र॒व॒र्ग्येणा॑प्नुवन्। यत्स॑-
१ एतन्मन्त्रस्य भाष्यं ५८० पृष्ठे द्रष्टव्यं ।
२ ” ५८२ ”
३ ” ५८२ ”
४ ” ५८३ ”
4 1