तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 678, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके ३ अनुवाकः। ६६५
मद्ये॒ह भ॒द्रं^(६)। । ^(७)सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताꣳश्चि॑दे॒वापि॑ गच्छतात्^(७)। । ^(८)ये युध्य॑न्ते॒ प्रध॑नेषु शूरा॑सो॒ ये त॑नु॒त्यज॑:। ये वा॑ स॒हस्र॑द-
सूर्य्यस्य दर्शनार्थं, 'अद्य' दिने, 'इह' कर्मणि, 'भद्रं असुं' समीचीनं प्राणं, 'पुनः', अपि 'अस्मभ्यं', 'दत्तां' प्रयच्छतां ॥
अथ सप्तमीमाह । ^(७)“सोम एकेभ्यः पवते ० ताꣳश्चिदेवापि गच्छतात्”^(७) इति । 'एकेभ्यः' केषाञ्चित् यजमानानामर्थे, 'सोमः', 'पवते' वस्त्रेण शोधितः पूतो भवति । 'एके' अन्ये केचिद्यजमानाः, 'घृतमुपासते' घृतद्रव्योपलक्षितं हविर्यज्ञमनुतिष्ठन्ति । 'येभ्यः' येषामर्थे, 'मधु प्रधावति' असौ वा आदित्यो देवमध्वित्यादिका मधुविद्या प्रवर्त्तते, यदथर्वाङ्गिरसो मध्वः कूल्या इत्यादि मधु-प्राप्तिफलको ब्राह्मणस्य* येषामर्थे प्रवर्त्तते, 'ताꣳश्चित्' सर्वानपि, अयं प्रेतः 'अपिगच्छतादेव' सर्वथा प्राप्नोत्वेव, सोमयाजिनां दर्श-पूर्णमासादियाजिनां ब्रह्मयज्ञमधुविद्याद्यनुष्ठातॄणां यः पुण्यलोकः सोऽयमस्य भवत्वित्यर्थः ॥
अथाष्टमीमाह । ^(८)“ये युध्यन्ते प्रधनेषु ० ताꣳश्चिदेवापि गच्छ-तात्”^(८) इति । 'ये' क्षत्रियाः, 'प्रधनेषु' प्रकृष्टधननिमित्तेषु सङ्ग्रामेषु, 'युध्यन्ते' युद्धं कुर्वन्ति । तत्रापि 'ये' 'शूरासः' शूराः भटाः, 'तनु-
* ब्रह्मयज्ञस्य इति E चिह्नितपुस्तकपाठः ।
4 L 2