भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 69, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 69

६४ तैत्तिरीये आरण्यके

क॒पिला अति॑लोहिताः। ऊ॒र्ध्वा अ॑वप॑तं॒ ताश्च॑। वैद्यु॒त इत्येकादश॑^(४)। ^(५)नैनं॑ वैद्यु॒तो हि॑नस्ति। य ए॒वं वेद॑^(५)। ^(६)सहोवाच॒ व्यासः॑ पाराश॒र्यः। वि॒द्युद्व॒धमे॒- वाहं मृ॒त्युमैच्छ॒मिति॑^(६)*॥ २॥

शब्देन परामृश्यन्ते। इत्येकादशवायुसम्बन्धिपुरुषगणः। एकै- कस्मिन् गणे पुरुषबाहुल्यात् 'प्रभ्राजमानाः', इत्यादिबहुव- चननिर्देशः। एकादशस्त्रीगणकस्येति† विवक्षितत्वादान्नाता अपि स्त्रीनाममन्त्रा अत्रानेयाः। तथा च प्रभ्राजमान्यस्तया देवतयाङ्गिरस्वद्ध्रुवासीदेति मन्त्रपाठः सम्पद्यते॥

उक्तवायुगणवेदनं प्रशंसति। ^(५)"नैनं • एवं वेद"^(५) इति। 'यः' पुमान्, वायुगणमाहात्म्यं 'वेद', 'एनं', 'वैद्युतः', अग्निरशनिरूपः 'न हिनस्ति'॥

एतस्योत्तमफलत्वं द्योतयितुं वैद्युतबधस्य कष्टतां दर्शय- ति। ^(६)"सहोवाच • मृत्युमैच्छमिति"^(६) इति। पराशरस्य पुत्रो 'व्यासाख्यः', महर्षिः योऽस्ति 'सः', खल्वेवम् 'उवाच', विद्यु- ताग्निना क्रियमाणे यो बधः तमेव 'अहं', 'मृत्युमैच्छं' तस्य मरणस्यातिकष्टत्वात् स एव बध एको मृत्युशब्दस्य मु- ख्यार्थः। तदपेक्षयान्येषां पापिष्ठत्वाभावादितरे बधा मृत्यव एव न भवन्तीत्यहं मन्ये॥


* अत्र रेखापातक्रमेण नवपादाः सन्ति, अर्थापेक्षयास्तु दश।
† D पुस्तके "गण" शब्दो नास्ति।